SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ दशकण्ठवधम् कश्चिन्मा प्रेरयत्येवमित्यनर्थ कुकल्पने । य प्राप्तो दृष्टमुल्लङ्घ्य स यो दूरतोऽधम ॥ ४६ ॥ कचिदिति । कश्चिद् अन्तर्यामी । माम् । प्रेरयति प्रयोजयति । इति व्यामोहमात्रम् । स हि कमर्थमभिधाय प्रेरयेद् इति तात्पर्यम् ॥ ४६ ॥ १०४ स्वार्थप्रापककार्यैकप्रयत्नपरता बुधैः । प्रोक्ता पौरुषशब्देन सा सिध्येच्छास्त्र सस्कृता । ४७|| स्वार्थेति । शास्त्रसस्कृता शास्त्रानुमोदिता नतूत्पथ नीता ॥ ४७ ॥ प्राकृत पौरुष वीर ! दैवनाम्ना न गीयते । तत्रालम्बितकर्तव्यः ः खञ्जः श्राण कुणिर्न किम् ॥४८॥ प्राकृतेति । वीरेति रामभद्रस्य साभिप्राया सबुद्धि । अतएवान्यत्राप्युक्तम्'उद्योगिन पुरुषसिंहमुपैति लक्ष्मी दैवेन देयमिति कापुरुषा वदन्ति । दैव हित्य कुरु पौरुषमात्मशक्तया यत्कृते यदि न सिध्यति कोऽत्र दोष ॥ ' इति । अत्र यत्ने को दोष इति विचारणीयम् । सर्वथोद्योगवता भवित व्यमित्यर्थ ||४८|| सकलकारणकार्यविवजिता निजविकल्पबलादुपकन्पिताम् । वितथदैवकथामवहेलयन् सततमाश्रय पौरुषमात्मन ॥४६॥ ॥ इति दैवनिराकरणम् ॥ सकलेति । निजविकल्पबलादुपकल्पिताम् आत्मनो विकल्पकोटे समु स्थापिताम् ॥४६॥ ॥ इति दैवनिराकरणम् ||
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy