SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ६६ दशकण्ठवधम् इत्येवमादिपरिभाषित । यथाकालम् उत्पत्योत्पत्य यथा यायम् उत्पद्योत्पद्य इति तात्पर्यम् । लीना तिरोहिता । ते हि असरया सख्यातुमर्हा । सख्येया इत्यर्थ । त्रिलोकीत्युपलक्षणम् | अनेक कोटिब्रह्माडा अपि द्रष्टव्या । अनेककोटय ब्रह्माण्डा येषा ते । अभिमन्यमानत्वादिरूप सबन्व षष्ठयर्थ । विकारपोड शान्तर्वर्तिपञ्चीकृतस्थूलभूत कार्यो हि ब्रह्माण्ड । तदभिमानी विराडुते । ब्रह्माण्डान्तर्वर्तिसमष्टिलिङ्गशरीराभिमानी स्वराट् । तदुभयकारणाव्याकृताभिमानी सम्राट् । तदुक्तम्— 1 इति ||६|| 'प्रावान्येन विराडात्मा ब्रह्माण्डमभिमन्यते । स्वराट् स्वरूपमुभय सम्राडित्य ॥ वर्तमाना ये सन्ति तेऽपीमे चित्रदर्शनाः । संख्यातु नहि शक्यन्ते भाविनां तु कथैव का ||७|| वर्तमानेति । ये च वर्तमाना अनुभूयमाना त्रिलोकीत्रसरेणव सन्ति । ते अपि इमे चित्रदर्शना विलक्षणावस्थाना । नहि सख्यातु परिच्छेत्तु शक्यते पार्यन्ते । भाविना भविष्यता तु कथैव का । दूरापास्तेत्यर्थ ॥ ७ ॥ तिर्यमानुषदेवेषु यः कश्चिन्नाम नश्यति । यस्मिन्नेव प्रदेशेऽसौ तत्रैवेद प्रपश्यति ||८|| तिर्यगिति । तिर्यगादिषु य कोऽपि यस्मिन् प्रदेशे नश्यति तस्मिन्नेव सौ प्रत्यगात्मा इद दृश्यजात पश्यतीत्यर्थ ॥ ८ ॥ आतिवाहिकनाम्नान्तः स्वहृद्येव जगत्त्रयम् । व्योम्नि चित्तशरीरेण व्योमात्माऽनुभवत्यजः ॥६॥ तिवाहिकेति । अजो व्योमात्मा शरीरी अन्त स्वहृदि व्योम्नि प्रतिवाहिक नाम्ना चित्तशरीरेण जगत्त्रय यथावासनमनुभवति । एतत्परलोकयात्रानिर्वाहक शरीरम् अतीन्द्रियत्वात् सूक्ष्मम्, अनुमेयत्वाल्लिङ्गम्, भौतिकमात्राघटितत्वादतिवाहिकम् इति च व्यपदिश्यते । उक्त च "
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy