SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ कचिदिति । मात्माविः । तत्रात्मनः पूर्व प्रतिषिद्धस्वादभावादेव नानुगामित्वं, विज्ञानादीनां पक्षणिकत्वाकाल्यपरीक्षायां चान्वयस्य निषिद्धत्वामान्ययः॥१८५४॥ गतु पहावयः परलोकिनो भविष्यन्तीत्याह-देहेत्यादि। देहबुद्धीन्द्रियादीनां प्रतिक्षणविनाशने । न युक्तं परलोकित्वं नान्यमाभ्युपगम्यते ॥ १८५८॥ तमाद्भूतविशेषेभ्यो यथा शुक्तसुरादिकम् । तेश्य एव तथा ज्ञानं जायते व्यज्यतेऽथवा ॥ १८५९॥ आदिशब्देन वेदनासंज्ञासंस्काराणां प्रहगम् । नान्यश्चाभ्युपगम्यत इति । आत्मा । तल्लोकायतपक्षानुलोमनमेव ज्ञा(जा?)तम् । तथाहि तस्यैतत्सूत्र-परलोकिनोऽभावात्परलोकाभाव' इति । तथाहि-पृथिव्यापस्तेजोवायुरिति चत्वारि तत्त्वानि तेभ्यश्चैतन्यमिति । तत्र केचिद्वृत्तिकारा व्याचक्षते-उत्पद्यते तेभ्यश्चैतन्यम् , अन्येऽभिव्यज्यत इत्याहुः, अतः पक्षद्वयमाह-जायते व्यज्यतेऽथवेति । शुक्तमाम्लत्वम् । सुरेति । मदजननशक्तिः । आदिशब्देन मूर्छादिजननसामर्थ्यपरिग्रहः ॥ १८५८ ॥ १८५९ ॥ ननु चक्षुरादीनि विषयांश्च रूपादीन्प्रतीय विज्ञानमुत्पद्यत इत्यतिप्रतीतमेतत् , तत्कथमुच्यते तेभ्य एव विज्ञानमित्याह-सनिवेशविशेष इति । सनिवेशविशेषे च क्षित्यादीनां निवेश्यते । देहेन्द्रियादिसंज्ञेयं तत्वं नान्यद्धि विद्यते ॥ १८६० ।। तथा च तेषां सूत्रम्- तत्समुदाये विषयेन्द्रियसंज्ञेति । नहि महाभूतव्यतिरेकेन्द्रियादीनि सन्ति, वत्संस्थानविशेष एव तत्प्रज्ञप्तेः । नच संस्थानं नामान्यत्संस्थानिभ्यः । इदं च महाभूतचतुष्टयं प्रत्यक्षसंसिद्धम् । न चैतन्यतिरेकेणान्यत्चत्वमस्ति प्रत्यक्षसिद्धम् । नच प्रत्यक्षादम्यत्प्रमाणमस्ति, पेनान्यस्य परलोकादेः संसिद्धिः स्यात् ।। १८६० ॥ कार्यकारणता नास्ति विवादपदचेतसोः । विभिन्नदेहवृत्तिवादवाश्वज्ञानयोरिव ॥ १८५१ ॥ न विवक्षितविज्ञानजन्या वा मतयो मताः । ज्ञानवादन्यसन्तानसम्बद्धा इव पुरयः ॥ १८६२ ॥
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy