SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ १८४ तत्त्वसङ्ग्रहः । णप्राप्तामिमतानां परामिमतसामान्यादिपदार्थानामनुपलब्धिश्च तदाश्रयत्वेनेष्टेषु सावलेयादिष्विति स्वभावानुपलब्धिः । तद्विविक्तानां सावलेयादीनामुपलम्भानासिद्धिः, नाप्यनैकान्तिकता हेतोरमिव्यक्तेनिराकरिष्यमाणत्वात् , एतावन्मात्रनिबन्धनत्वाचाभावव्यवहृतेः, नापि विरुद्धता सपक्षे भावादिति ॥ १६९८ ॥ ___ इति युक्त्यनुपलब्धिविचारः। तत्र सम्भवश्च लक्षणया समुदायः। सम्भवप्रतिपत्तौ समुदायिप्रतिपत्तिः । यथासहस्रसद्भावे ज्ञाते शतादिसत्ताप्रतिपत्तिः । इदं च किल दृष्टान्ताभावान्नानुमानम् । अत्र दूषणमाह-समुदायेत्यादि । समुदायव्यवस्थाया हेतवः समुदायिनः । शतादिसम्भवज्ञानं सहस्रात्कार्यलिङ्गजम् ॥ १६९९ ॥ इति सम्भवविचारः। यस्मात्समुदायिभ्योऽन्यस्य समुदायस्याभावात्समुदायव्यवस्थायाः समुदायिन एव कारणं तस्मात्सहस्राच्छतादिसंभवप्रतीतिः कार्यलिङ्गजैव ॥ १६९९ ॥ इति सम्भवविचारः । ___ अन्ये त्वैतिह्यादि च प्रमाणान्तरमिच्छन्ति, तत्रानिर्दिष्टवक्तकं प्रवादपारम्पर्यमैतिह्यम् । यथा-इह वटे यक्षः प्रतिवसतीति । अनियतदेशकालमाकस्मिकं सदस सूचकं ज्ञानं प्रतिभा । यथा-कुमार्या एव भवति, अद्य मे भ्राता आगमिष्य. तीति । तच किल तथैव भवतीति प्रमाणम् । अत्र दूषणमाह-ऐतिह्येत्यादि । ऐतिह्यप्रतिभादीनां भूयसा व्यभिचारिता। नैवेदृशां प्रमाणत्वं घटतेऽतिप्रसङ्गतः ॥ १७०० ॥ इत्यैतिह्यादिविचारः। आदिशब्देन प्रत्यभिज्ञादीनां ग्रहणम् । तेषामपि परैः कैश्चित्प्रमाणत्वेन गृहीतत्वात् । अतिप्रसङ्गत इति । स्वप्नान्तिकस्यापि कदाचित्सत्यतादर्शनात्प्रमाणान्तरत्वं स्थात् ॥ १७००॥ इत्यैतिह्यादिविचारः।
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy