SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ ४०६ तत्त्वसङ्घछः । अन्यथेत्यादिना यथोक्तमेवार्थ निगमयति । अन्यथानुपपन्नत्वं यस्य तस्यैव हेतुता । द्वावपि तां वा मा वा तौ हि न कारणम् ॥ १३६८ ॥ नान्यथानुपपन्नत्वं यत्र तत्र श्रयेण किम् । अन्यथाऽनुपपन्नस्त्वं यत्र तत्र श्रयेण किम् ॥ १३६९ ।। दृष्टान्ताविति । साधर्म्यवैधर्म्यलक्षणौ । न कारणमिति । साध्यप्रतिपत्तेः । अन्यथाऽनुपपन्नत्वं यत्रेत्यस्यानन्तरं नान्यथानुपपन्नेत्यस्यार्द्धस्य पाठः कर्त्तव्यः ॥ ॥ १३६८ ।। १३६९ ॥ त्रिरूपेऽविनाभावसम्बन्धाभावं दर्शयन्नाह - स श्याम इत्यादि । स श्यामस्तस्य पुत्रत्वाद्दृष्टा श्यामा यथेतरे । इति त्रिलक्षणो हेतुर्न निश्चित्यै प्रवर्त्तते ॥ १३७० ॥ तत्रैकेत्यादिनैकलक्षणस्यैव हेतोः सामर्थ्य दर्शयत्युदाहरणप्रपश्येन तत्रैकलक्षणो हेतुर्दष्टान्तद्वयवर्जितः । कथञ्चिदुपलभ्यत्वाद्भावाभावौ सदात्मकौ ॥ १३७१ ॥ भावाभावौ कथंचित्सदात्मकौ कथंचिदुपलभ्यत्वात् । अत्र न साधर्म्यवैधर्म्य - दृष्टान्तौ बहिर्भूतौ प्रयोगात्मकावर्थात्मकौ वा विद्येते । भावाभावात्मकस्य सर्वपदार्यराशेः पक्षीकृतत्वात् । तद्व्यतिरिक्तस्य चान्यस्याभावात् । पक्षधर्मस्यान्यथानुपपनत्वादव्यतिरेकाचैकलक्षण एवायम् । कथञ्चिदिति । ज्ञेयत्वादिना केनचित्पर्यायेणेत्यर्थः । सदात्मकाविति । अत्रापि कथविदिति सम्बन्धनीयम् । तेनायमर्थो भवति कथचिदुपलभ्यत्वात्कथञ्चित्सदात्मकाविति ॥ १३७१ ॥ I इदानीं द्विलक्षणस्य हेतोरुदाहरणान्याह - 'चन्द्रत्वेनापदिष्टत्वान्नाचन्द्रः शशलाञ्छनः । इति द्विलक्षणो हेतुरयं चापर उच्यते ॥ १३७२ ॥ पतत्कीटकृतेयं मे वेदनेत्यवसीयते । पतत्कीटकसंस्पर्शप्रतिलब्धोदयस्त्वतः ॥ १३७३ ॥ चक्षू रूपग्रहे कार्ये सदाऽतिशयशक्तिमत् । तस्मिन्व्यापार्यमाणत्वाद्यदि वा तस्य दर्शनात् ॥ १३७४ ॥
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy