SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ पलिकासमेतः। सर्वेत्यादिना प्रतिविधत्ते सर्वावित्तिप्रसङ्गेन सा निषेधुं न शक्यते । भिन्नार्थस्वं न चेहास्ति खविदप्यर्थविन्मता ॥ १३५२॥ - "अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति" इति सर्वार्थाप्रत्यक्षत्वप्रसङ्गान शक्यते स्वसंवित्तिनिषेद्धम् । नापि भिन्नविषयत्वप्रसङ्गो युक्तः, यतः स्वसंवित्तिरप्यर्थसंवित्तिरिष्टा, तत्कार्यत्वात् । नतु तन्मयत्वेन । स्वसंवित्तिस्तु ताप्यादिति न विरोधः ॥ १३५२ ॥ स्वातिरिकेत्यादिना शङ्करस्वामी प्रमाणयति । खातिरिक्तक्रियाकारि प्रमाणं कारकत्वतः। वास्यादिवच्चेद्वैफल्यमन्यद्ध्यपि फलं मतम् ॥ १३५३ ॥ उक्तन्यायेन वास्यादेरन्यदस्ति फलं न च । कारकत्वं च नो सिद्धं जनकत्वविवक्षया ॥१३५४ ॥ स्थापकत्वविवक्षायां न विरोधोऽस्ति कश्चन । तेनानैकान्तिको हेतुर्विरोधाप्रतिपादनात् ॥ १३५५ ॥ आत्मव्यतिरिक्तक्रियाकारि प्रमाणं कारकत्वाद्वास्यादिवदिति । वैफल्यमित्यादिना दूषयति । विफलं, सिद्धसाध्यतादोषात् । यतोऽन्यदपि जन्यं फलं परिच्छेदेत्यादिना कथितम् । हिशब्दो हेतौ । वास्यादिवदिति च साध्यविकलो दृष्टान्तश्छिदया सहैकत्वस्य प्रतिपादितत्वात् । कारकत्वादिति च जन्यजनकत्वविवक्षायामसिद्धो हेतुः, स्थापकत्वेनैवेष्टत्वात् । साधनस्य स्थापकत्वविवक्षायामप्यनैकान्तिको विरोधाभावात् । सामान्यविवक्षायामनैकान्तिक एव, विरोधस्यानुपदर्शितत्वात् ॥ १३५३ ॥ ॥ १३५४ ॥ १३५५ ॥ ननु च यदि विषयाकारं ज्ञानं स्यात्तदा भवेद्विषयसारूप्यस्य प्रामाण्यम् , यावता ग्राह्यविषयसमानाकारं समानखभावं ज्ञानमुपपद्यते, नैव तथा, प्राडाजात्यन्त। रत्वाद्रूपरसयोरिवेत्याह-ग्राह्येत्यादि । ग्राह्यसाधारणाकारं तस्माजात्यन्तरत्वतः। रसरूपादिवज्ज्ञानं नैव चेदुपपद्यते ॥ १३५६ ॥ न्यायानुसरणे सर्वममाभिरुपवर्णितम् । इदमन्यव विस्पष्टं पायग्रहविवेचने ॥ १३५७ ॥ ५११
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy