SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ पञ्जिकासमेतः। वक्षितभेदाः सामान्यमिति सर्वत्र जातिशब्दैरुपादीयन्त इति यहच्छाशब्दा जातिशब्देभ्यः पृथग्लक्षणकारेण निर्दिष्टा इत्याह-प्रसिद्धेस्त्विति । गवादयो हि शब्दा कोके जातिशब्दतयां प्रतीताः, चित्राङ्गदादयस्तु संज्ञाशब्दत्वेनेति पृथग्वचनम् १२२६ . नन्वित्यादिना परश्चोदयति । नन्वन्यापोहवाच्यत्वाजातिशब्दस्तु केवलः । विवक्षापरतत्रवाद्विवक्षाशब्द एव वा ॥ १२२७ ॥ सत्यमित्यादिना प्रतिविधत्ते । सत्यं लोकानुवृत्येदमुक्तं न्यायविदेशम् । इयानेव हि शब्दोऽस्मिन्व्यवहारपथं गतः ॥ १२२८ ॥ इयानेव हीति । पञ्चप्रकारः संज्ञाजातिगुणक्रियाद्रव्यशब्दभेदेन ॥ १२२८ ॥ ननु यदि स्वमतसिद्धैव कल्पनाऽभिप्रेता किमर्थ तर्हि "अन्ये त्वर्थशून्यैः शब्दैरेव विशिष्टोऽर्थ उच्यते” इत्यनेन ग्रन्थेन पृथक्स्वमतसिद्धा कल्पना पश्चादुपवर्णिताss. चार्येणेत्याह-ते तु जात्यादय इति । ते तु जात्यादयो नेह लोकवद्ध्यतिरेकिणः। इत्येतत्प्रतिपत्त्यर्थमन्ये खित्यादिवर्णितम् ॥ १२२९ ॥ एतदुक्तं भवतिन सावलेयादिव्यक्तिव्यतिरिक्ता जात्यादयः पारमार्थिकाः सन्ति सांकृतास्त इत्यस्यार्थस्य प्रतिपादनार्थमुक्तमिदं लक्षणकारेण, नतु पृथगपरां कल्पनां दर्शयितुमिति । अन्य इति । बौद्धाः । अर्थशून्यैरिति । जात्यादिनिरपेक्ष रपोहमात्रगोचरैः शब्दैः । इत्याचार्यप्रन्थस्यार्थः ॥ १२२९ ॥ न केवलममामिरियमभिलापिनी प्रतीतिः कल्पनाऽभ्युपगता, परैरप्यवश्याभ्युपगन्तव्या, अन्यथा जगदव्यवहार्यमेव स्यादिति दर्शयन्नाह-जात्यादियोजनां येऽपीति। जात्यादियोजनां येऽपि कल्पनां समुपाश्रिताः। तैरभ्युपेया नियतं प्रतीतिरभिलापिनी ॥ १२३० ॥ अन्यथा योजनाभावायुक्तयोरिव भावयोः। ... खातव्येण परिच्छेदात्कल्पना नैव कल्प्यते ॥१२३१ ॥ : 12. एवं वा व्यवहार्य स्यात्सर्व विश्वमिदं ततः। जात्यादिरूपसंसृष्टं व्यवहार्यमिदं मतम् ॥ १२३२॥ । ...
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy