SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ २६८ तत्त्वसवहः। .. चिन्तेत्यादिना भूयः प्रत्यक्षतः कल्पनासिद्धिमाह । चिन्तोत्प्रेक्षादिकाले च विस्पष्टं या प्रवेद्यते । अनुविद्धव सा शब्दैरपहोतुं न शक्यते ॥ १२१७ ॥ तस्याश्चेत्यादिना शाब्दव्यवहाराख्यकार्यलिङ्गतोऽपि सिद्धिमाह । तस्याश्चाध्यवसायेन भ्रान्ता शब्दार्थयोः स्थितिः। अन्यायोगादसत्त्वेऽस्याः सेदृश्यपि न सम्भवेत्॥१२१८॥ यतस्तात्त्विकी शब्दार्थव्यवस्था पूर्वनिषिद्धा, भ्रान्तेति च व्यवस्थापिता । यदि चास्याः कल्पनाया असत्त्वं स्यात्तदा सा-शब्दार्थव्यवस्था, ईदृश्यपि-भ्रान्तापि, न सम्भवेत् तदभिप्रायवशात्तस्याव्यवस्थानात् । अन्येषां च स्खलक्षणादीनां बाह्यानां वाच्यत्वेनायोगस्य प्रतिपादितत्वात् ॥ १२१८ ॥ ननु चान्येऽपि न केवलमभिलापिनी प्रतीति कल्पनां वर्णयन्ति, किन्तु जातिगु. णक्रियादिसम्बन्धयोग्यामपि । सा कस्मान्न गृह्यत इत्याह-जात्यादीत्यादि । जात्यादियोजनायोग्यामप्यन्ये कल्पनां विदुः । सा जात्यादरपास्तत्वाददृष्टेश्च न सङ्गता ॥ १२१९ ॥ अदृष्टेश्चेति । जात्यादेरिति सम्बन्धः । अयं चाभ्युपगम्य जात्यादीन्परिहार उक्तः ॥ १२१९॥ जात्यादीनामित्यादिना तदेवादृष्टत्वं समर्थयते । जात्यादीनामदृष्टवात्तद्योगाप्रतिभासनात् । क्षीरोदकादिवञ्चार्थे घटना घटते कथम् ॥ १२२० ॥ क्षीरोदकादिवच्चेति । यथा क्षीरोदकादेर्मिश्रीभूतस्य विवेकेनाप्रतिभासनान्न घटना शक्यते कर्तु तद्वज्जात्यादीनां सत्त्वेऽपि विवेकनाश्रयादप्रतिभासनान शक्यते तदाश्रयेण सहेत्यर्थः ।। १२२० ॥ . यदि तर्हि जात्यादियोजना कल्पना न युक्तैव, तत्कथं लक्षणकारेणोक्तं नाम जात्यादियोजना कल्पनेति, आह-हेयेत्यादि । हेयोपादेयविषयकथनाय द्वयोक्तितः। परापरप्रसिद्धेयं कल्पना द्विविधोदिता ॥ १२२१ ॥ तत्र हेया जात्यादियोजना परप्रसिद्धा कल्पना, उपादेया स्वप्रसिद्धा नामयोजनाकल्पना, इति दर्शनाय द्विप्रकाराऽपि कल्पना निर्दिष्टा । कथमवगम्यत इत्याह.
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy