SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ १६१ तत्त्वसकहः। सर्वेष्वेष च प्रयोगेषु हेतूनामनैकान्तिकत्वं विपक्षे बाधकप्रमाणाभावादिति दर्श. यति-सन्दिग्धेत्यादि । सन्दिग्धव्यतिरेकित्वं सर्वेष्वेतेषु हेतुषु । विपक्षे वर्तमानानां वाधकानुपदर्शनात् ॥ ४७५ ॥ इति स्थिरभावपरीक्षा । सुबोधम् ॥ ४७५॥ इति स्थिरभावपरीक्षा । इदानीं कर्मतत्फलसंबन्धव्यवस्थादिसमाश्रयमित्येतत्समर्थनार्थ चोद्योपक्रमपूर्वकमाह-क्षणिकेत्यादि । क्षणिकानित्यतालीढं सर्व चेद्वस्तु तत्कथम् । कर्मतत्फलसम्बन्धकार्यकारणतादयः ॥ ४७६ ॥ क्षणिकानित्यतामहणं कालान्तरस्थाग्यनित्यताव्यवच्छेदार्थम् । क्षणिकानां सतामनित्यता क्षणिकानित्यता तया लीढम्-समाक्रान्तं यदि सर्वमेव वस्तुजातं प्रतिज्ञायते भवद्भिस्तदा येऽमी कर्मफलसंबन्धादयो लोकशास्त्रयोः प्रतीतास्ते कथं सिद्ध्येयुः । आदिग्रहणावेतुफलाधिगन्तु प्रमाणम् , अनुभवे प्रत्यभिज्ञानम् , अन्यस्मिन्नर्थे दृष्टेऽर्थान्तरेऽमिलाषः, बन्धमोक्षौ, स्मरणम् , संशयपूर्वको निर्णयः, स्वयं निहितप्रत्यनुमार्गणम् , दृष्टार्थकुतूहलविरमणमित्येवंप्रकाराः कुमतिपरिकल्पिताश्योघराशयो गृह्यन्ते । न हि लोकशामप्रतीतार्थविरोधेन प्रतिज्ञायमानोऽर्थः सिद्धिमासादयतीत्यभ्युपेतप्रतीतबाधा दोषः प्रतिज्ञाया इति भावः। तथाहि येनैव कृतं कर्म शुभादिकं तेनैव तत्कलमुपभुज्यत इति लोके प्रतीतम् । न हि देवदत्तेन कृते कर्मणि शुभादिके यज्ञदत्तस्तत्फलमिष्टमनिष्टं चोपभुत इति प्रसिद्धम् । नापि शाचे, यथोकम्-"अनेनैव कृतं कर्म कोऽन्यः प्रत्यनुभविष्यति" इति । तचैतत्क्षणिकपक्षे विरुष्यते । कर्मफलपरिप्राहकस्सैकस्य कर्तुरभावेन कृतनाशाकृताभ्यागमदोषप्रसजात् ॥ ४७६॥ कथमित्याह-य इत्यादि। यः क्षणः कुशलादीनां कर्तृत्वेनावकल्प्यते। फलप्रसवकाले तु नैवासावनुवर्तते ॥ ४७७ ॥
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy