SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्री। तत्त्वसङ्ग्रहः। पञ्जिकासमेतः। प्रकृतीशोभयात्मादिव्यापाररहितं चलम् । कर्म तत्फलसंबन्धव्यवस्थादिसमाश्रयम् ॥१॥ गुणद्रव्यक्रियाजातिसमवायाशुपाधिभिः। शून्यमारोपिताकारशब्दप्रत्ययगोचरम् ॥२॥ स्पष्टलक्षणसंयुक्तप्रमाद्वितयनिश्चितम् । अणीयताऽपि नांशेन मिश्रीभूतापरात्मकम् ॥३॥ असंक्रान्तिमनाद्यन्तं प्रतिबिम्बादिसन्निभम् । सर्वप्रपञ्चसन्दोहनिर्मुक्तमगतं परैः॥४॥ खतनश्रुतिनिस्संगो जगद्धितविधित्सया। अनल्पकल्पासङ्ख्येयसात्मीभूतमहादयः॥५॥ यः प्रतीत्यसमुत्पादं जगाद गदतांवरः। तं सर्वज्ञं प्रणम्यायं क्रियते तत्त्वसंग्रहः ॥ ६ ॥ __ (पञ्जिका) ज्ञेयाम्भोनिधिमन्थनादधिगतैस्तत्त्वामृतैर्यो जग जातिव्याधिजरादिदुःखशमनैः कारुण्यतोऽतर्पयत् । तस्मै तत्त्वविदांवराय जगतः शास्ने प्रणम्यादरा तत्त्वानामिह सङ्घहे स्फुटतरा प्रारभ्यते पत्रिका ॥ १ ॥ वक्तुं वस्तु न मादृशा जडधियोऽपूर्व कदाऽपि क्षमाः क्षुण्णो वा बहुधा बुधैरहरहः कोऽसौ न पन्थाः कचित् । किन्तु खार्थपरस्य मे मतिरियं पुण्योदयाकाङ्गिणः तत्त्वाभ्यासमिमं शुभोदयफलं कर्तुं समभ्युपता ॥२॥
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy