SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ पड्भावपरीक्षा। स्थिरभावनिरासेन क्षणभाप्रसाधने । षड्भाववादः काणादः प्रतिक्षिप्तोऽप्ययनतः ॥१॥ परीक्ष्यते विविच्यापि पुनस्तत्त्वविशुद्धये। तत्र द्वन्य. परीक्षा। अथ काणादाः। (1) द्रव्यं गुणाश्रयः, (2) तत्र नित्यं व्योमादिपञ्चकम् ॥२॥ (3) पृथिव्यादिचतुष्कं तु नित्यं चानित्यमेव च । परमाणुतदारभ्यावयवावयवित्वतः ॥३॥ (4) कर्तृकालक्रियासंज्ञासङ्ख्यामानादिभेदतः । तन्वायवयवेभ्योऽन्यः पटायवयवी भवन् ॥ ४ ॥ अत्र सौगताः। 1 अयं गुण इदं द्रव्यमिति भेदो न युज्यते । लात्मनो नेतरस्तु पटः कश्चन दृश्यते ॥ ५॥ अभिभूतेऽपि शुक्ले खे जपाकुसुमसभिधौ । स्फटिकोऽनभिभूतस्तु ननु रकः प्रकाशते ॥६॥ नैतद्युक्तं यतो भ्रान्तिः सा च निर्विषया यतः। न सता स्फटिकेनास्या भाखरेणावभासिता ॥ ७ ॥ किश्चान्यस्यान्यरूपेण भानमित्यप्यसङ्गतम् । शुक्लरूपस्य वा सेयमन्यथाख्यातिरिष्यताम् ॥ ८॥ 2 नच प्रमाणं व्योमादौ शब्दादिस्त्वप्रयोजकः । नियता नहि शब्दस्य विभुनित्यैकधर्मता ॥ ९॥ विशिष्टसमयोद्भूतमनस्कारान्न चापरम् । परापरत्वविज्ञानं साधनं समपेक्षते ॥ १० ॥ प्रागेवात्मा प्रतिक्षिप्तो विज्ञानामेतरन्मनः। 3 भारम्भकाणां नित्यत्वे सदाऽऽरम्भप्रसङ्गतः ॥ ११ ॥ आरम्भकतयेष्टानां नाणूना निसतोचिता। अणुभ्यो नेतरः स्थूलस्तदारभ्यस्तु यो भवेत् ॥ १२॥ 4 तत्तसंहतिभेदात्तु संज्ञाभेदादि कल्पितम् । कर्तृकालक्रियाभेदोऽप्यत एवोपपद्यते ॥ १३ ॥ पूर्वपूर्वप्रत्ययकक्षणिकाणुसमुषयात् । सन्तानकामसम्बद्धात को वायवीतरः ॥१४॥
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy