SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ २३ इत्यसिद्धं मर्मत्वमेतेषाम् । कथं तर्हि शुद्धोदनादिकुलोत्पत्तिरेषां श्रूयत इत्यत्राह-"निर्माण तत्तथामतमिती"ति । इसमेवार्थमागमेन द्रढयबाह"अकनिष्ठे पुरे रम्ये शुद्धावासविवर्जिते । बुश्यन्ते तत्र सम्बुद्धा निर्मितस्त्विह बुज्यते।" इति [९१६] इह तु शुद्धोदनकुलादिषु तदाधिपत्येन तथा निर्माणमुपलभ्यत इति तदाशयः। ये पुनः फलस्थाः स्रोत आपमादयश्चत्वारः (स्रोत आपनः सकृदागामी अनागामी अर्हन् ) तेऽप्यस्यैव बुद्धस्स देशनामवलम्न्याहतमार्गाः । तथाचोकम्"ये च वाहितपापत्वाब्राह्मणाः पारमार्थिकाः । अभ्यस्खामलनैरात्म्यास्ते मुनेरेव शासने ॥ इहैव श्रमणस्तेन चतुर्धा परिकीर्खते । शून्याः परप्रवादा हि श्रमणैर्ब्राह्मणैस्तथा ॥" इति । [९२३] अयमत्र सङ्कहः यः स्यात् गोत्रविशेषतः करुणया दुःखी जगढुःखतः तहुःखं शमयन् निरन्तरकृपाप्रज्ञाप्रकर्षाश्रयः । नैरात्म्यावयभावनातिशयतः प्रक्षीणसर्वावृतिः सर्वज्ञो भगवान स एव जगतां दुःखोपशान्यै स्थितः ।। एवमस्या परीक्षायां सर्वज्ञः सम्प्रसाधितः । अन्तःपातमकृत्वैव निबन्धाभ्यन्तरस्थितिम्। आपाततो दिदृक्षन्ति केचिदायासमीरवः ॥१॥ तेषां कृते मया कश्चियन आधीयतेऽधुना । यस्यायं परिपाकस्तु तत्त्वसङ्ग्रहसङ्ग्रहः। कापिलाः। प्रकृति- 1 निरीका न्यापिनी सर्वशक्तियुक्ता गुणत्रयी। परीक्षा। या प्रसूते खयं सर्वान् भावान् गुणमयानिमान् ॥ ३ ॥ 2 भावाः शब्दादयश्चैते भवन्ति त्रिगुणात्मकाः । सर्वो भावस्त्रयाणां च खभावैर्लक्ष्यते यतः ॥ ४ ॥ 3 यदेव सुखमाभाति तदुःखमितरस्य तु । विमोहात्मकमन्यस्य तत्किमत्रिगुणात्मकम् ॥५॥ इदं सदेव तु तया कार्यमारभ्यतेऽखिलम् । असतः करणायोगादुपादानप्रहादपि ॥ ६ ॥ असम्भवाच सर्वस्मात शकात शक्यस सम्भवात् ।
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy