SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक तत्त्वमुक्ताकलापः स विश्वं क्रीडाकारुण्यतन्त्रः सजति सर्वार्थसिद्धिः प्रयोजनादिविरहान्न कर्तेश इति ब्रुवन् । तम्य सिद्धावसिद्धौ च व्याघातादिपराहतः॥ मा भूदनुमानम् , प्रसङ्गस्तु स्यादिति चेन ; प्रयोजनशून्यत्वे कर्तृत्व न स्यात् । अस्ति च कर्तृत्वम् ; अतः प्रयोजनवानिति विपर्ययविश्रमात् । तथा सति नेश्वरस्य बाधः ; प्रयोजनसाघकानुग्रहार्थत्वात् । अथ प्रयोजनवत्त्वे कर्मवश्यत्वप्रसक्तिः ; तदभावात् प्रयोजनशून्य इति । एवमपि प्रयोजनशून्यविश्व कर्तृत्ववादिनामिष्टप्रसङ्गः । प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ।। इति चेत्, तर्हि प्रवृत्तिदर्शनात् प्रयोजनं किञ्चिदङ्गी कुरुष्व । स्वार्थ परार्थ वा प्रवर्तत इत्यत्रोभयार्थमित्याह-स इति । विषमसृष्टया साम्यं आनन्ददायिनी बलादेकत्वश्रुतिः समुदायैकत्वपरेति शङ्कामनुवदति-प्रयोजनादीति । ईश्वरो न जगत्कर्ता प्रेक्षावत्त्वे सति तत्कृतिसाध्यप्रयोजनरहितत्वादित्यनुमाने पक्ष ईश्वरस्सिद्धो, न वा ; आये कर्तृत्वेन सिद्धत्वाद्धर्मिग्राहकमानबाधः। द्वितीये त्वाश्रयासिद्धिरिति दूषणानुमानं व्याहतमित्यर्थः । मा भृदनुमानमिति । पक्षधर्मतायास्ताङ्गेषु परिगणनाभावात्तत्र नेदं दूषणमिति भावः। एवमप्यननुकूलत्वरूपतर्कानशून्यत्वात् तर्काङ्गाभासत्वमित्याह-नेति । ननु प्रयोजनवत्त्वं कर्मवश्यताव्याप्तमिति कथमकर्मवश्य प्रयोजनवत्त्वमिति शङ्कते-अथेति। प्रयोजनवत्त्वं कर्तृत्वव्यापक न वा ; द्वितीय आह-एवमपीति । प्रयोजनवत्त्वं माऽस्त्विति भावः । प्रथमं शङ्कते-प्रयोजनेति । परिहरति-तहीति । कर्मवश्यत्वं तव्याप्य 1 विपर्यये-घ. 2 कर्तृवादि-घ. कुरुष्व । किमसौ स्वार्थ-घ. तव्याप्यत्वान-ख.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy