________________
सरः ३]
कारणवाक्यश्रुतसदादिपदानां जगच्छरीरकब्रह्मपरत्वसमर्थनम्
।
सर्वार्थसिद्धिः
स्थूलसूक्ष्मचिदचिद्वस्तुविशिष्टविवक्षयाऽप्युपपत्तेः । सर्व च जगत् कर्तुश्शरीरतयाऽऽनातम् ; “ अस्मान्मायी सृजते विश्वमेतत् " इति । ईदृशी च सृष्टिः “ सोऽभिध्याय शरीरात्स्वात्" इत्युपबृंहिता । अधीयते चाथर्वणिकाः
विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् । ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः ॥ सूयते पुरुषार्थ च तेनैवाधिष्ठिता जगत् ।'
गौरनाद्यन्तवती सा जनित्री भूतभावनी ।। इति । अगीयत चैतत्
मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम् ।
__ आनन्ददायिनी त्वे प्रमाणमाह--सर्व चीत । 'अपृथक्सिद्धधर्मवाचकानां धर्मिबोधकत्वादिति भावः । ननु 'अस्मात्' इत्यादिवाक्ये प्रकृतेरेवोपादानत्व प्रतीतिरितीश्वरो निमित्तमात्रमिति शङ्कां पराकरोतिअस्मादिति । स्वाच्छरीरादित्युपबृंहणेन अस्मान्मायोति मायाशरीरकः परमात्मा अस्मात् स्वशरीरभूतादेव विश्वं सृजतीत्यर्थः । प्रकृतिशररिकात् स्वस्मादित्यन्ये । अन्यथा श्रुत्यन्तराविरोधमाभप्रेत्याहअधीयत इति । अधिष्ठिानस्य शरीरत्वादिति भावः । एवमनभ्युपगमे 'सोऽकामयत' इत्यादिश्रुतिविरोध, निर्विकारत्व
1 अपृथक्सिवाच-ग. 2 प्रतीतेरीश्वरो-क. ख. 3 परमात्मा स्वाच्छरीर-ग. 4 अधिष्ठितस्य शरी-क. ख.