________________
तस्यास्य प्रबन्धरत्नस्य जडद्रव्यसराह्वयः प्रथमो भागः पुरा प्रथमसंपुटे श्रीमन्नृसिंहराज-श्रीमदभिनवरङ्गनाथब्रह्मतन्त्रपरकालस्वामिवर्यप्रणीताभ्यां आनन्ददायिनी-भावप्रकाशाख्याभ्यां व्याख्याटिप्पणाभ्यां सार्धमेतत्संस्थातः संमुद्रय प्राकाश्यमनायि ।
तदनु द्वितीये संपुटे द्वैतीयीकजीवसरगतो जीवाणुत्वनिरूपणान्तो ग्रन्थभागोऽपि ताभ्यामेवानन्ददायिनीभावप्रकाशाख्यव्याख्याटिप्पणाभ्यां सह प्रकाशितः।
तदनन्तरं च परुद्वत्सरे तृतीये संपुटे जीवसरगत एव तदुपरितनो मोक्षोपायभूतभक्तिनिरूपणान्तोऽपरोऽपि भागस्ताभ्यामेवानन्ददायिनीभावप्रकाशाख्यव्याख्याटिप्पणाभ्यां सहैव मुद्रयित्वा प्राकाश्यमुपनीतः।
तदिदानीं भावप्रकाशाख्यटिप्पणप्रणेतृणां श्रीमद्भिनवरङ्गनाथब्रह्मतन्त्रपरकालस्वामिवर्याणां गूढार्थसंग्रहाभिख्यश्रीभाष्यटिप्पणप्रणयने तन्मुद्रापणादिषु चोररीकृतावधानतया प्रकृतावशिष्टभावप्रकाशाख्यटिप्पणप्रणयनेऽवश्यंभाविन विलम्बं, परस्तादेतत्परिशिष्टतया पृथगवशिष्टभावप्रकाशटिप्पणमुद्रापणं, मुहुर्मुहुरहमहमिकयाऽऽवेद्यमानं बहूनां प्रेक्षावतां मुद्रितसव्याख्यसर्वार्थसिद्धिप्रबन्धावेक्षणकौतूहलं, सुबहोः कालात्समारब्धमुद्रणस्य सव्याख्यसर्वार्थसिद्धिप्रबन्धस्यास्य प्रकृते एकया व्याख्यया वाऽपि साकं मुद्रापणेन समापनौचित्यं चानुचिन्तयतामेतत्संस्थाध्यक्षाणां निदेशमनुरुध्य संपुटेऽस्मिन् तत्त्वमुक्ताकलापस्थस्तृतीयो नायकसर आनन्ददायिनीव्याख्यामात्रसंवलितया सर्वार्थसिद्धयाख्यव्याख्यया साकं संमुद्रय प्रकाश्यते।
एतद्ग्रन्थप्रणेत्रादिविषयेऽवश्यवक्तव्यांशस्सर्वोऽपि प्रथम एव संपुटे प्रकाशित इति न पुनरत्र तद्विषये लेखनी प्रसारयामः ।
एतत्संपुटगतनायकसरप्रतिपाद्यविषयसंग्रहः एतत्संपुटपरिदृश्यमाने नायकसरे-परब्रह्मणो जगच्छरीरकत्व-जगत्कर्तृत्व-जगदुपादानत्व-वाच्यत्व-वेद्यत्व-शाब्दमुख्यवृत्तिविषयत्वादीन् प्रसाध्य, नारायणेतरस्य परतत्त्वतामभिमन्यमानानां बहूनां वादिनां मतानि निरस्य नारायणस्यैव परतत्त्वतां सुबहु