SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ सरः ३] परमात्मनोऽस्त्रभूषणादिवेफल्यवादिमतानुवादः 291 सर्वार्थसिद्धिः केचिदाहुः--वीरशृङ्गारादिरसानुबन्धीनि अस्त्रभूषणानि ; तानि तदुचिताधिकारिणां यद्यपि तत्तद्विग्रहेष्वनुसंधेयानि, तथाऽप्यत्यन्तनिष्कामानां तादृशचिन्तनमयुक्तं, “ प्रशान्तं साक्षसूत्रकम्" इत्यादिविशेषणाच्च ; न चावाप्तसमस्तकामस्य "निर्दोषो निरनिष्टः" इत्यादिप्रख्यातप्रकारस्य परमात्मनो भूषणादिसाध्यं किंचिदस्ति । आनन्ददायिनी अत्रापि पूर्ववत् सङ्गतिरित्यभिप्रायेणाह-केचिदिति । वीररसानुबन्धीनि शङ्खचक्रादीन्यस्त्राणि, शृङ्गाररसानुबन्धानि कौस्तुभादिभूषणानि । तदुचिताधिकारिणामिति । परनिग्रहकामानां नृसिंह. त्रिविक्रमादिध्याने चक्रं शङ्ख तथा खड़े शाङ्गं नन्दकमेव च । शूलं परश्वथ शक्तिः , इत्यादिभिः हारकेयूरकटककौस्तुभादिविराजितम् । गोपिकामध्यगं वेणुं पूरयन्तं रविप्रभम् ।। इत्यादिभिश्च नृसिंहगोपालादिध्यानादावभिधानादिति भावः । प्रशान्तमिति । पुरुषोत्तममन्त्रोपासनध्याने निष्कामानां चिन्तोक्ता। तत्राक्षसूत्रादिकं नास्त्राभरणादिकमिति भावः । ननु तत्तदधिकारिणां तत्तदायुधभूषणादिकं ध्यानोपयोगि भवतु ; निष्कामस्य माऽस्तु ; तथाऽपि त्रवर्गम्येव तत्सद्भावे न किंचित् बाधकमित्यत्राह-न चेति । तत्रास्त्रभूषणादिभिः किंचित्साध्यं प्रयोजनं वक्तव्य, प्रयोजनं चेष्टप्राप्ति 1 णादीनि-पा. 19*
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy