________________
258
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः 'प्राबल्यं चेनिषेधः पर इति मुखरं तुर्यबौद्धस्य तूर्यम् ॥ ५६ ॥
सर्वार्थसिद्धिः व्याघातात् । तदिह स्वपक्षस्थापकदोषानाकलनमात्रेण बाह्यसिद्धान्ता विपश्चिद्विदितदोषाः किं न मिथ्या भवन्ति ? तद्वदिहापि बाधकदोषस्य सतः परामर्श अन्यथाऽपि वा बाध्यबाधकभावो दुर्घर्षण इति भावः । अनन्यगतिकापच्छेद न्यायनिदर्शनमात्रेण तुल्यस्यापि परस्य प्राबल्ये सर्वबाधकमाध्यमिकविजयतूर्य जोघुष्येतेत्याह-प्राबल्यमिति। निषेधः पर इत्येतावता तम्य प्राबल्यं चेदित्यन्वयः ॥ ५६ ॥
इति दोषसाम्ये परस्य बाधकत्वानुपपत्तिः.
आनन्ददायिनी निवर्तत इत्यर्थः। व्याघातादिति । जीवस्याणुत्वमहत्त्वादिविरुद्धाकारप्रसङ्गेन प्रपञ्चस्य सत्यत्वमिथ्यात्वशून्यत्वादिप्रसङ्गेन च व्याघात इत्यर्थः । अन्यथाऽपि परामर्शाभावेऽपि । अनन्यगतिकेति। दोषमूलत्वेऽपि परस्य बाधकत्वे सर्वनिषेध्यसापेक्षस्य माध्यमिकवाक्यस्याद्वैतवाक्यादपि परत्वेन ब्रह्मापि बाध्यतेति भावः। “निर्दोषत्वाभिमन्तृस्वसमायमतिभिः" इति म्लस्य निदोषत्वेनाभिमन्तारो ये स्वसमयिनः तेषां स्वसिद्धान्ते निर्दोषत्वाभिमानिनां मतिभिरित्यर्थः ॥ ५६ ॥
दोषसाम्ये परस्य बाधकत्वानुपपत्तिः.
1 प्रागल्भ्य-पा.
न्यायदर्श-पा.