________________
256
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः दोषोत्थत्वाविशेषे न हि भवति परं पूर्वबाधप्रगल्भं
सर्वार्थसिद्धिः अत्र कैश्चिदनाकलिततर्कतन्त्रगतिभिः प्रपञ्चलुण्टाकैरेवं प्रत्यवस्थितम्-दोषमूलत्वाविशेषेऽपि परत्वादद्वैतवाक्यजन्यं ज्ञानं प्रत्यक्षस्य बाधकम् ,
पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सेत्स्यति ।
इति न्यायात् ; न चाविशेष. परस्य बाधकत्वं प्रतिरुन्ध्यात् , प्रमाणसिद्धत्वाविशेषेऽप्युद्गातृप्रतिहत्रपच्छेदयोयुगपदुभयसंभवे परस्य नैमित्तिकशास्त्रस्य बाधकत्वस्थापनात् ; अपेति च रज्जुसर्पभीतिः कस्यचिदनाप्तवाक्येनापि ; अतश्शास्त्रत : प्रत्यक्षबाधश्शक्य इति, तत्प्रतिक्षिपति-दोषोत्थत्वेति। अयं भावः -न हि सर्पभूदल नभ्रमयोरुपारतनस्य
___ आनन्ददायिनी पूर्वसङ्गतिमनुसृत्याह-अत्रेति । अविशेषत्वेऽप्युद्गातृप्रतिहत्रपच्छेदनिमित्तयोः शास्त्रयोः पौर्वापर्येणैव बाध्यबाबकभावः स्थापित इत्याह-प्रमाणसिद्धेति । ननु दाषमूलत्वे बाधकत्वं नापपद्यत इत्युक्तौ नेदमुत्तरम् , शास्त्रयोर्दोषमूलकत्वानभ्युपगमादित्यत्राह-अपैति चेति । नन्वनाप्तवाक्यस्य दोषोत्थस्याप्यपरत्वमात्रेण रज्जुसर्पघीबाधकत्वं दृष्टमिति चेत्तत्राह-अयं भाव इति । यत्र चानाप्तवाक्येन बाधः तत्रापि दोषमूलत्वज्ञानाभावेन प्रामाण्यभ्रमात् तज्ज्ञाने तु न
1 ज्ञाने न बाधक-क.