SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ 250 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक सर्वार्थसिद्धिः स्संभाव्यते । अतस्तप्तायःपिण्डादिन्यायात् भ्रमहेतुसंसर्गविशेषवति द्रव्यद्वये स्थौल्यचैतन्यादिगुणव्यतिहारधीः स्यादिति शङ्काकलङ्कितस्ततदेहात्मबोधस्सर्वेषां सर्वदा संभवन्नपि नित्यनिर्दोषनिगमजन्यधिया न्यक्कारमर्हति । ज्वालैक्यधरिप्यदृष्टनिर्वापणस्य पुनरारोपितदीपेऽपि संभवात् सादृश्यसादेश्यभेदाग्रहादिप्रसूतेति लैङ्गिक्या धिया नियम्येत । चन्द्र सूर्यपरिमाणाल्पत्वादिबोधेष्वपि दूरत्वादिदोषसंप्रतिपत्त्याऽनन्यथासिद्धानुमानागमसिद्धया बुद्धया बाधः साधीयान् । इह तु तत्तत्प्रमाणदोषत्वेन सभावितानां सर्वेषामसिद्धर्न शास्त्रबाध्यत्व सभाव्यमिति ॥ ५४ ॥ इति परोक्षबाध्यत्वयोग्यायोग्यप्रत्यक्षविभागः. आनन्ददायिनी जन्मान्तरयोगश्च देहाति रिक्तस्यैवति भावः । “यो मे हम्तादि" इत्युक्त आदिशब्दार्थः । नन्वात्मनि स्थौल्याध्यासे देहभेद ग्रहोऽस्तु ; देहे अहत्वाध्यासे कथमित्यत्राह-अतस्तप्ताय इति । चैतन्यं आत्मत्वम् । न्यकार:-प्रामाण्यनिश्चयः । परोक्ष ज्ञानबाध्यापरोक्षान्तराणामपि न दृष्टान्ततेत्याह-ज्वालैक्यधीरिति । तत्र संभावितदोषत्वेनाप्रामाण्यशङ्काकलाङ्कितत्वात्परोक्षेण बाघो युक्त इति भावः । दार्टान्तिके वैषम्यमाह -इह विति ॥ ५४ ॥ परोक्षबाध्यत्वयोग्यायोग्यप्रत्यक्षविभागः. 1 सूर्यादिपरि-पा. 2 रिक्तस्येति-ग. 3 शानबो-ग,
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy