________________
232
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलापः विच्छेदादिकल्पान्तरमपि कथितैश्चूषितं दोषबृन्दैः ॥ ५ ॥
सर्वार्थसिद्धिः ब्रह्मबाघस्यापि सुवचत्वात् । ब्रह्म मिथ्या, सप्रपञ्चतया बाधितत्वात्, यत्कथचिह्वाध्यते तत्सर्वथा बाध्यत इति त्वयैवाश्रितत्वादिति । ननु यत्सत्यं तन्नित्यं प्रकाशते, स्वतश्च, यथा ब्रह्म, विगीतं तु न तथा ; सुषुप्त्यादौ प्रपञ्चभानाभावात् , जागरादौ चान्यत एव भानात् । किंच सत्यस्य सर्वस्मिन् प्रकाशमाने प्रकाशो दृश्यते, यथा संवित्स्वरूपस्य ; न तथा प्रपञ्चस्य, अप्रकाशमाने घटादौ पटादिप्रकाशदर्शनात् । सत्यं च ब्रह्म देशपरिच्छेदरहितम् ; न तथा विगीत मिति मिथ्या स्यात् । अतः कोठ्यन्तरसंभवात् विकल्पन्यूनः प्रस्तुत उपन्यास इति शङ्कापनुत्त्यै कोट्यन्तरेष्वप्युक्तदोषानतिदिशति-धीविच्छेदेति । यदत्र कदाचिद
आनन्ददायिनी विषयबाधेन ---प्रपञ्चरूपविषयस्य बाधेन । यद्वा प्रपञ्चरूपे देशे ब्रह्मणो बाधेनेत्यर्थः । ब्रह्मबाधः-ब्रह्मणो मिथ्यात्वम् । सप्रपञ्चतया-प्रपञ्चविशिष्टाकोरण। ननु सप्रपञ्चत्वेन बाधे तेन रूपेण मिथ्यात्वमस्तु न स्वरूपेणेत्यत्राह-यत्कथंचिदिति । स्वतश्चेति । यत्सत्यं तत्स्वतः प्रकाशत इत्यर्थः । ततश्च व्यापकनिवृत्त्या सत्यत्वनिवृत्तिरित्यर्थः । किं चेति । सत्यं चेत् सर्वस्मिन्प्रकाशमानेऽपि प्रकाशतेति भावः । सत्यं च ब्रह्मेति । प्रपञ्च-स्य सत्यत्वे देशपरिच्छेदो न स्यादिति भावः। उक्तदोषानिति । ब्रह्मण्यतिप्रसङ्गादिदोषानित्यर्थः । असाधकत्वे हेतुमाह
1श्चूर्णितं-पा
2 सप्रपञ्चात्मना बा-पा, 3 मिति तन्मिथ्या-पा. 4 स्यासत्य-क.