SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ सरः ३] जगन्मिथ्यात्वप्ताधकव्यावर्तमानत्वरूपहेत्वन्तरस्यापि सविकत्यंनिरसनारम्भ. 229 तत्त्वमुक्ताकलापः व्यावृत्तं शुक्तिरूप्यं विदितमिह मृषा विश्वमेवं न किं स्यात् मैवं हेतोरयुक्तस्स खलु भिदुरता बाध्यता नाशिता वा। सर्वार्थसिद्धिः उक्तदोषदुष्टमप्यनुमानान्तरमधिकदोषशिक्षार्थं व्याचष्टेव्यावृत्तमिति । इह-यत्र भाति तत्रेत्यर्थ । अन्यत्र तु प्रसङ्ग एव नास्ति ; यद्वा सर्वस्मिन्निह जगतीत्यर्थः । विमतं मिथ्या व्यावर्तमानत्वात् , यदुक्तसाधनं तदुक्तसाध्यम् यथा शुक्तिरूप्यम् ; तत्खलु स्वतादात्म्येन भाते शुक्तिद्रव्येऽनुवर्तमाने स्वयं व्यावर्तते, अतो मिथ्या। एवं रज्जादेस्सर्पभूदलनाम्बुधारादेश्च सत्यत्वमिथ्यात्वे व्यवतिष्ठेते, इति । अत्रापि प्रागुक्तदूषणानि न प्रस्मर्तव्यानत्यिभिप्रायेण प्रतिवक्ति-मैवमिति । तत्र हेतुदौःस्थ्यं हेतुमाह -हेतोरिति । अयुक्तिं प्रथयितुं विकल्पयति-स खल्विति । सोऽय व्यावर्तमानत्वहेतुः, कुतश्चित् भिन्नत्वं वा । बाध्यत्वं वा, नश्वरत्वं वा ? प्रथम आनन्ददायिनी दूषितसजातीयानामप्युदाहरणभेदमात्रेण पृथग्दूषणेऽनवस्थाप्रसङ्गं परिहरन् पूर्वसङ्गत्याऽऽह-उक्तेति । व्यावर्तमानत्वं मिथ्या न सेत्यादिहेतुविषयविकल्पदूषणमप्यत्रास्तीत्यर्थः । एवमिति । रज्ज्वाधिष्ठानस्यानुवर्तमानत्वात्सपीदेव्यावर्तमानत्वात्सत्यमिथ्यात्वे दृष्टे इत्यर्थः। प्रस्मरण 1 प्रतिषेधति-पा. प्रदर्शयितु-पा. योऽयं-पा
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy