________________
200
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
ANV
तत्त्वमुक्ताकलापः नान्यत्सत्यं तु दृष्टं तदवधिकभिदासाधने चेष्टसिद्धिः।
सर्वार्थसिद्धिः तथा च व्याघातः, तत्त्वातत्त्वयोरेकस्मिन्नसंभवात् ; अन्यथा कथमनेकान्तवादनिस्तार इति । ननु विगीतानां व्यावहारिकसत्यत्वनिबन्धन मिथस्सत्येतरत्वं न साधयामः । किं त्वस्ति किञ्चिदशेष 'कल्पनारहितं परमार्थसत्यं, ततोऽन्यत्वं विहातिष्ठामहे ; तत्राह-नान्यदिति । अशेषविशेषोज्झितं किञ्चित्परमार्थसत्यं न प्रत्यक्षादिषु कुतश्चित्प्रमाणात् सिद्धम् । न च तथा स्वयं प्रकाशते, तवापि हृदयावसंवादादिति भावः । ननु त्वयाऽपि परमार्थसद्ब्रह्माङ्गीकृतम् ; अतस्तदन्यत्वसाधनमनुपालम्भनीयमित्येतदपि दूषयति-तदवधिकेति । न हि वयं जगतो जैनगन्धिवत् ब्रह्मानन्यत्वमङ्गीकुर्म इति भावः । अथ मिथ्याशब्दस्य
आनन्ददायिनी प्रतियोगिकभेदस्साध्यश्चत्, पक्षधर्मताबलात् पक्षस्य सत्यशब्दवाच्यत्वं न सिध्येदिति कथं व्याघात इति चेत् , उच्यते-सत्यत्वं हि सत्यशब्दप्रवृत्तिनिमित्तं, तच्च पक्षेऽप्यस्त्येव, तत्र तद्वयवहारात्तथा च तद्भेदस्तत्रापि स्यादिति व्याघात इति भावः । तत्त्वातत्त्वयोः भेदाभेदयोः । व्यावहारिकसत्यत्वनिबन्धनं सत्येतरत्वमिति । इदमुपलक्षणं, मिथ्येतरत्वं वेत्यर्थः । न प्रत्यक्षादिषु कुतश्चित् प्रमाणादिति । प्रत्यक्षादिषु मध्ये केनचित् प्रमाणेनेत्यर्थः। जैनगन्धिवदिति । यादवमत
1 कल्पनातीत-पा.
अत्राह-पा.