SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ सरः ३] ब्रह्माज्ञानकल्पकमते निरवद्यत्वश्रुवेनिर्विषयत्वापादनम् 167 सर्वार्थसिद्धिः कत्वविरोधात् । भावा'द्वैतिनो ब्रह्मस्वरूपातिरिक्ततात्त्विकाभावरूपदोषसंभवात् तन्निषेधिका श्रुतिरियमिति चेन्न ; अभावनिषेधे तत्प्रतियोगिभावसंबन्धापातात् । ततश्चाद्वैतवादो निरुध्येत । दोषस्य परमार्थत्वं नास्तीति निरवद्यत्वश्रुत्यर्थ इति चेन्न ; दोषस्वरूपनिषेधके तदनुज्ञया तत्सत्यत्वनिषेधकशब्दाभावात् , तत्परत्वक्लप्तेश्च गुरुत्वात् । अतो भावमभावं वा सत्यमसत्यं वा ब्रह्मणि निरसनीयं किञ्चिदिच्छता निर्विषयैव निरवद्यत्व श्रुतिरापादितैवेति ॥ इति ब्रह्माज्ञानानुमानानां नित्यनिर्दोषश्रुतिबाध्यत्वम् . आनन्ददायिनी सत्त्वेऽपि नाद्वैतविरोध इति शङ्कते-भावाद्वतिन इति । ततश्चेति । ननु प्रतियोगिनो मिथ्यात्वान्न दोष इति चेन्न । अभावस्य निषेधोऽप्यभावसमसत्ताको वाच्योऽन्यथा दोषभूताभावसत्तया श्रुतिविरोधतादवस्थ्यादिति भावः। दोषस्वरूपेति । निरवद्यमिति श्रुताववद्यं तत्त्वं च भासते । तत्र च विशिष्टनिषेधे विशेष्ये बाध इति स्वर्गिध्वंसवदोषत्वनिषेधो वाक्यार्थो वाच्यो न तु श्रुतपरित्यागेनाश्रुतपारमार्थिकत्वनिषेध इति भावः । ननु गुरुत्वेऽप्यन्यथानुपपत्त्याऽङ्गी कर्तव्येत्यत्राहअत इति । तथा सति दोषे सत्यतानिषेध उक्तो न तु ब्रह्मणीति ब्रह्मणि दोषनिषेधश्रुतेरर्थशून्यता स्यादिति भावः ॥ ३९॥ ब्रह्माज्ञानानुमानभङ्गः. 1 द्वैतिनस्स्वरू-पा. श्रुतिरुपपादितेति-पा. कार्य इत्याह-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy