SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ सरः ३] दृष्टान्ते साध्यवेकल्यापादनेन चित्सुखोक्तभावरूपाशानसाधकानुमानदूषणम् 163 तत्त्वमुक्ताकलापः अस्पृष्टावद्यतोक्ते सर्वार्थसिद्धिः अभावान्तरनिवर्तकत्वेऽपि विरोधाभावात् । दण्डचक्रादयो हि स्वाभावातिरिक्तं घटाभावं निवर्तयन्ति । तद्वदेवदत्तप्रमाऽपि सस्कारोत्पत्तिहेतुभूता स्वसंस्कारप्रागभावं ध्वंसयत्येव । एतत्परिहाराय अभावव्यतिरिक्तानादिध्वंसिनीत्येतावन्मात्रमुपाददीमहाति चेत् । हन्त तर्हि सिद्धसाधनत्वं परिजिहीर्षता दृष्टान्तस्य साध्यविकलत्वापत्तौ न दृष्टिीयते ।। ३८ ॥ इति चित्सुखोक्तभावरूपाज्ञानानुमानभङ्गः. अथ ब्रह्माज्ञानकल्पनां श्रुतिविरोधेन निर्मूलयति-अस्पृष्टेति । न तावन्निरवद्यत्वश्रुतिरनादर्तव्या; सर्वश्रुत्यनादरप्रसङ्गेन निष्कञ्चक आनन्ददायिनी दूषयति-अभावान्तरेति । हन्त तहीति । ननु देवदत्तस्थाभावातिरिक्तत्वेन विशेषणे नैष दोष इति चेत् , मैवं ; घटादिजनकस्योपादानज्ञानस्य तत्प्रागभावनिवर्तकत्वात् वेद्यगताभिव्यक्तिप्रागभावनिवर्तकत्वाच्च न स्वाभिमतसिद्धिरिति भावः ॥ ३८ ॥ चित्सुखोक्तभावरूपाज्ञानानुमानभङ्ग. निरवद्यत्वश्रुतिबाधितान्यनुमानानीति पूर्वसङ्गत्याऽऽह-अथेति । अनुमानेना विद्या यतः ब्रह्मणो जीवस्य वा साध्या उभयथाऽपि ब्रह्मणस्सावद्यत्वप्रसङ्ग इति भावः। सर्वश्रुतीति । अविशेषादिति 1 विद्याधीतब-ग. 11*
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy