SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ सरः ३] ईश्वरस्य जगदुपादानत्वं, निर्विकारादिश्रुत्यविरोधश्च 117 तत्त्वमुक्ताकलापः निष्कृष्टेऽस्मिन् 'शरीरिण्यखिलगुणगणालवृत्तानन्दरूपे संपद्यन्ते समस्तास्समुचितगतयो निर्विकारादिवादाः ॥ २५ ॥ सर्वार्थसिद्धिः विकाराद्याश्रयस्य कथं तदभावोपदेश इत्यत्राह-निष्कृष्ट इति ॥२५॥ आनन्ददायिनी विरादौ कथामिति वाच्यम् । तत्रापि शरीरस्यैव उपादानोपादेयभावादिति चेन्न । यदि साक्षात्तदाधारत्वेनोपादानत्वं तदाऽपि भूतलस्य घटाधुपादानत्वप्रसङ्गः । न च समवायसंबन्धेन तदाश्रयत्वं विवक्षितमिति न दोष इति वाच्यम् । तथाऽप्यपृथसिद्धयोरेव समवाय इति कार्यकारणयोरपृथक्सिद्धयोरुपादानोपादेयभावोऽस्तु । यद्यत्राप्यतिप्रसक्तिशङ्का सा समवायेऽपीति तथैव परिहार्या । साक्षात्त्वविशेषणं तु व्यर्थम् । यच्च शरीरस्यैवोपादानत्वमिति तद्व्यवहारविरोधान्निरस्तम् । बालो देवदत्तः स्थविरोऽभूदिति हि विशिष्टे व्यवहारः । 'निष्कृष्टेऽस्मिन् शरीरिणि' इत्यादिमूलस्य प्रकृतिगतत्वाद्विकारस्य नात्मस्वरूपे साक्षाद्विकार इति भावः । आदिशब्देनानन्दाद्युपदेशपरिग्रहः ॥ २५ ॥ 1 शरीरिण्यमल-पा. 2 विकाराश्रयस्य-पा.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy