SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ सरः ३] नैयायिकसंमतेश्वरसाधकानुमानानां स्थालीपुलाकनीत्या दूषणेन निगमनम् 111 तत्त्वमुक्ताकलापः श्रुत्याऽत्र व्याप्तिमिद्वावलमनुमितिभिर्निष्फलः संप्लवोऽपि । तस्मादुल्लोकभूमा स कथमनुमया विश्वकर्ता प्रसिध्येत सर्वार्थसिद्धिः इत्यत्राह-श्रुत्येति । व्याप्तिग्राहकेणैव साध्यसिद्धौ किमत्रानुमितिसाध्यमित्यर्थः । संप्लववादे सिद्धेऽपि मानान्तरस्य प्रवृत्तिः स्यादित्यत्राह-निष्फल इति । मानान्तरसिद्धे वस्तुन्याकारान्तरसमर्पणे हि संप्लवश्शोभेत । अन्यथा सिद्धसाधनत्वं वा, सर्वत्र सिद्धसाघनत्वदोषोच्छेदो वा स्यादिति भावः । अत्र -- " कार्यायोजनधृत्यादेः पदात्प्रत्ययतः श्रुतेः । वाक्यात्संख्याविशेषाच्च साध्यो विश्वविदव्ययः ।। इति न्यायाचार्यसंगृहीतानां सर्वेषां हेतूनां स्थालीपुलाकन्यायेन निरस्तप्रायत्वं निगमनव्याजेन नियमयति-तस्मादिति । नन्वनिरम्तेऽपि जगत्कर्तुरनुमाने परतत्त्वपरमहितपरमपुरुषार्थेषु शारीरकं निष्प्रतिघातम् । ___ आनन्ददायिनी संप्लववादे संवादपक्षे । मानान्तरेति । सप्लवेऽप्यविदिताकारो वक्तव्य इत्यर्थः। ननु कार्यायोजन' इत्यादिना संगृहीतानि सर्वानुमानानि न दूषितानीत्यत्राह-अत्रेत्यादिना । ननु सिद्धपरवाक्यानामपि कार्यत्वभ्रान्तिनिरासश्चेत् प्रयोजनं तर्हि पुरुषाप्रान्त्यनुसारेण सूत्रं कर्तव्यमिति न व्यवस्था स्यादित्य -
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy