SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ सरः ३ ] व्याप्यत्वासिद्धयापादनेन नैयायिकसंमतसकर्तृकानुमानदूषणम् 103 सर्वार्थसिद्धिः योगा' भावेऽपि सिद्धसाधनत्वनिवृत्त्यै तदुपादानमिति चेत्तर्हि शरीराजन्यत्वेऽप्यसिद्धिपरिहारे विशेषणं समर्थमाशङ्कय एकामसिद्धिं परिहरतो द्वितीयापत्तेरित्युक्तं वितथं स्यात् । ननु ज्ञानादित्रिकवान् कर्ता, तत्पूर्वकत्वे साध्ये व्यापारगर्भतया न पृथग्व्यापारपदोपादानं, येन विशेषणवैयर्थ्यापत्तिरिति चेन्न, अन्यतमनिवृत्तिमात्रेण कार्यत्वनिवृत्त्युपपत्तौ त्रिकोपादानवैयर्थ्यात् । अन्यतम साधने स्वादिष्टमसाधितं स्यात् । शेषं शास्त्रतः सेत्स्यतीति चेन्न, कार्यत्व निवृत्तेर्हेतुपूर्वकनिवृत्तिप्रयुक्ततया प्रयत्नादिनिवृत्तेरप्रयोजकनापातात् । तदिह तत्तद्विशेषव्यतिरेकस्यापि व्याप्तिनिवेशाङ्गीकारे शरीरजन्यत्वव्यतिरेकेऽपि न वैयर्थ्यं वाच्यमिति । आनन्ददायिनी ८. विरोधमाह - तत्यादिना । क्षित्यादिकमकर्तृकं अजन्यत्वादित्युक्ते पक्षेऽसिद्धिः स्यात्; तामेकामसिद्धि परिहर्तुं शरीरविशेषणोपादाने शरीराजन्यत्वं पक्षे वर्तत इत्यसिद्धिः परिहृता भवति । तथाऽपि जन्यत्वाभावेनैवा कर्तकत्वव्याप्तिग्रहसंभवे शरीरविशेषणविशिष्टे व्याप्तेर्नीलधूम 'इवाभावाद्वयाप्यत्वासिद्धिः स्यादिति स्वरूपासिद्धि परिहरतो व्याप्यत्वासिद्धिः स्यादिति भावः । वस्तुतस्तु - शरीरजन्यत्वाभावोऽन्य एव; तथा च यन्निष्ठा व्याप्तिरिति न्यायेन न वैयर्थ्यामिति ध्येयम् । नन्विति । अव्यवधानेन ज्ञानादीनां पूर्वसत्त्वस्य विवक्षितत्वा न सिद्धसाधनमपीति भावः । अन्यतमेति । यद्यपि विनिगमकाभावात्रयाणामपि सिद्धिः स्यात्; अन्यथैकस्यापि सिद्धिर्न स्यात् ; तथाऽपि त्रयाणामपि सिद्धिर्नास्ति, अप्रयोजकत्वात् ; तदाह---न कार्यत्वनिवृत्तेरिति । तत्तद्विशेषेति । हेतुविशेषव्यतिरेकस्येत्यर्थः । 1 गाभावे सिद्व - पा. 2 साधने न त्वदिष्ट साधितं - पा. b मपि नास्त्यप्रयो- ग. - 4 न साधन - क. 3 क. 3 इव व्याप्तयभावा
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy