________________
सरः ३]
सोपाधिकत्वापादनेन नैयायिकसमतसकर्तृकानुमानदूषणम्
101
तत्त्वमुक्ताकलापः त्यागे तस्यात्र तच्छिथिलितनियमाः कापि नोपाधयः स्युः। तादृग्धर्मात्ययाच प्रकरणसमता
सर्वार्थसिद्धिः शक्तेश्वोपाधिः स्यादेव । तादृशस्य धर्मस्यात्रोपाधित्वानङ्गीकारेऽतिप्रसङ्गमाह-त्याग इति । न हि निषिद्धत्वादीनामेतम्य च विशेषोऽस्ति, येन त एव तत्रतत्रोपाधयः स्युः, नासावत्रेति नियम्येत । एवं सोपाधिकत्वे मतभेदेन व्याप्यत्वासिद्धिः, व्यापकनिवृत्त्या व्याप्यनिवृतिर्वा स्यादिति भावः । शरीराजन्यत्वसमबलत्वाभिमाने प्रतिरोधमाहतागिति। ननूपाचौ 1 प्रतिसाधने शरीरोपादानं व्यर्थम् ; आत्मादिषु जन्यत्वानिवृत्तिमात्रेण सकर्तृकत्वनिवृत्तावुपपन्नायां विशिष्टनिवृत्त्यनपेक्षणात् । अतो निरुपाधिकं निष्प्रतिसाधनं च विश्वकृदनुमानम् |
आनन्ददायिनी साधनाव्यापकत्वसिद्धयर्थत्वादेकदेशावृत्तित्वमात्रेणापि . . . . भावादिति भावः । तादृशस्येति । साधनाव्यापकत्वे सति साध्यसमव्याप्तस्यत्यर्थः । न हीति। उपाधितापादकस्यैतदन्यत्वघटितत्वाभावादित्यर्थः । मतभेदेनेति । असिद्धयापादकत्वं सत्प्रतिपक्षोत्थापकत्वमिति मतभेद इति भावः । असिद्धयापादकत्वमुपारुपपादयति -व्यापकेति । केचित्तु बाधमाह-व्यापकतीत्याहुः । अपरे त्वनौपाधिकत्वं व्याप्तिरिति तदभावतया व्याप्यत्वासिद्धिमाहुः। सत्प्रतिपक्षोत्थापकत्वमाह-शरीराजन्यत्वेति। ननूपाधौ प्रतिसाधन इति ।
1 प्रतिसाधने च शरी-पा. 2 व्यापकत्वासिद्धि-क.