SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 98 सभ्याम्यसर्वार्थसिद्धिसहिततस्त्व मुक्काकलापे तत्त्वमुक्ताकलापः ते चादृष्टप्रयुक्तास्तदपि यतनवत्स्यात्तु यत्ता नपेक्षम् । [नायक सर्वार्थसिद्धिः नन्ववधीनामप्यचेतनानां चेतनानधिष्ठितत्वे प्रवृत्तिर्न स्यादित्यत्राह - ते चेति । अदृष्ट प्रेरितानामेव प्रवृत्त्युपपत्तौ किं तत्र प्रयत्नगवेषणेन ? अदृष्टस्याप्यचेतनस्य प्रवृत्तौ चेतनाधिष्ठानमपेक्षितमित्यत्राह - तदपीति । ईश्वरप्रयत्नो ह्यचेतनोऽपि जगत्सृष्टौ न प्रयोजकप्रयत्नाधिष्ठितः ; न च कुम्भारम्भ इव जीवप्रयत्न सहकृतः ; अतस्तत्र व्याप्तिसङ्कोचावश्यं - भावादत्रादृष्टेऽपि क्वचित्सङ्कोचः स्यात् ; अन्यथा गौरवात् । ईश्वरप्रयत्नस्य नित्यत्वात् प्रयत्नानाधिष्ठितत्वमिति चेन्न, नित्यानामपि परमाण्वादीनां तदपेक्षाङ्गीकारात् । अन्यत्रान्वयव्यतिरेकनियमवताआनन्ददायिनी स्मृत्यादयश्च प्रमाणमिति भावः । यदुक्तं कारणान्तराणीत्यादिना तदाशङ्कते - नन्विति । ' तदुपहितमर्यादैव कारणान्तरमिति नियमो नेत्याहअदृष्टेति । नियमोस्तीऽत्याशङ्कते - अदृष्टस्यापीति । एवमपि न नियम इत्याह – ईश्वरेति । ननु प्रयत्नस्य न प्रयत्नान्तरमपेक्षितमिति चेत् तत्राह - न चेति । न जन्यप्रयत्नातिरिक्तस्य प्रयत्नाधिष्ठितत्वं दृष्टमित्यर्थः । अतस्तत्रेति। ' तथा च नियमसंकोचस्यावश्यकत्वे अदृष्ट एव तथाऽस्त्वित्यर्थः । अन्यथेति । अदृष्टातिरिक्तस्यापि कस्य चित् कल्पनीयत्वादित्यर्थः । अन्यत्रान्वयव्यतिरेकेति । अन्यत्र कर्तुरन्वय 2 1 कत्रोपहित-क. 2 तथा नियम - ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy