SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ नायक सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे m सर्वार्थसिद्धिः नन्वदृष्टमचेतनं चेतनानधिष्ठितं कथं प्रवर्तेत ? इत्थम्-स्वकारणोपनीतसहकारिसंपन्नतातिरिक्ततत्प्रवृत्त्यभावात्कारणानामपि तत्तत्कारणोपनेयत्वात् । तान्यप्यचेतनानि चेतनाधिष्ठेयानीति चेन्न, ईश्वरप्रयत्ने तदभावात् । चैतन्यायोगव्यवच्छेदवन्निष्ठतामात्रेण तस्यापि तदधिष्ठितत्वमिति चेन्न, तावतोऽधिष्ठानशब्दार्थतया कैश्चिदप्यनङ्गीकारात् । मयैवमङ्गीकृतमिति चेत् , अन्यैरपि तर्हि चैतन्यात्यन्तायोगव्यवच्छेदवन्निष्ठत्वमेव चेतना ___ * आनन्ददायिनी पितुरिति चेत्तत्रापि समानम् । कृष्यादावभिचारे च तत्सत्त्वाददृष्टद्वाराऽपि कर्तृत्वं, यत्र तन्नास्ति तत्र न तद्दारा कर्तृत्वं, यथा भोक्तुEटादाविति ध्येयम् । नन्विति । तदानीं तदर्थ तज्ज्ञानादिमता भवितव्यमिति भावः। स्वकारणेति। अन्यथासिद्धत्वान्न ज्ञानादिकल्पनमिति भावः । ननु प्रवृत्त्यन्यथाऽनुपपत्त्या न कल्पनम् , अपि तु व्याप्त्येत्याह-तान्यपीति । व्याप्तिर्नेति प्रतिवक्ति--ईश्वरेति । नन्वीश्वरश्चेतनः प्रयत्नमप्यधितिष्ठतु, सर्वविषयकत्वेन ज्ञानस्य प्रयत्नविषयत्वस्यापि संभवादिति चेत् , न, तदधिष्टानं हि न तत् गोचरज्ञानमात्रेण, तथा सति पर्वताधिष्ठानस्यापि दर्शनमात्रेण प्रसङ्गात् , अपि तु तद्व्यापारहेतुयत्नजनकत्वेन । न चात्र तद्गोचरव्यापारजनकयत्नजनकत्वं, यत्नस्य नित्यत्वात् । ननु तद्गोचरयत्नवत्त्वमेव तत्त्वमस्तु, तच्च तत्राप्यस्त्येव, तद्यत्नस्य सर्वविषयकत्वदिति चेत्तर्हि स्वस्य स्वप्रेर्यत्वप्रसङ्गेनात्माश्रयात् , सर्वदा प्रेरणप्रसङ्गाच्च । किं च ज्ञानस्य तदधिष्ठाने किमायातं यत्नमात्रेण चरितार्थत्वादिति भावः । चैतन्यायोगेति । तथा च न व्यभिचार इति भावः । अन्यैरपीति । तथा च परार्थ 1 यत्र तु तन्नास्ति-ग. 2 तथा च प्राक्तनशानादि-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy