________________
सरः ३] विष्णोरेव परतत्त्वतास्थापकानन्यथामिद्धप्रमाणभूयस्त्वकथनम्
तत्त्वमुक्ताकलापः
57
सत्त्वोपज्ञं पुराणं मनुमुखमुनिभिर्निर्मितं धर्म
शास्त्रम् ।
व्यक्तान्यो मूलवेदः कठपरिपठिता वल्लि - कास्तापनीयं
सर्वार्थसिद्धिः
मानत्वात् सत्त्वोपज्ञं वैष्णवादिपुराणम् । तेन मात्स्यादिषु विभक्तराज - सतामसेभ्यः प्राबल्यं सूच्यते । मनुमुखमुनिभिरित्यनेन - मन्वर्थविपरीता तु या स्मृतिस्सा न शस्यते ।
इत्युक्तं मानवप्राबल्यं व्यज्यते | त्यक्तान्यः - परित्यक्तदेवतान्तरतद्धर्मः । मूलवेदः - अनन्यधर्ममूलभूतो वेदभागः । कठवल्लीषु - । विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः ।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ||
इति प्राप्यविशेषदर्शनात्तासु पुरुषादिशब्दोक्त उपास्यो विष्णुरेवेति युक्तम् । तापनीयोपनिषत्तु 'नृसिंहरूप भगवदवतारैकविषया ।
आनन्ददायिनी
यतीति भावः । सत्त्वोपज्ञमिति । अनेन कात्म्न्येन प्रमापूर्वकत्वात् प्रामाण्यं सूच्यते । अनन्यधर्मेति । भगवद्धर्ममूलभूत इत्यर्थः । प्राप्य - विशेषदर्शनादिति । ननु विष्णोः पदं प्राप्यमिति ततोऽन्यदेव प्राप्यमुपास्यं चास्तीति चेत्, मैवम् । 'विष्ण्वाख्यं परमं पदम् ' इत्यादिबहुवचनानुरोधेन स्वरूपार्थकत्वात् । भेदपक्षेऽपि पद' शब्दस्य चरणार्थत्वं वा । कर्मार्थत्वस्याशाब्दत्वात् । भावे वा स्थानार्थत्वं रूढे योगात् बलीय1 नरसिह - घ, 2 शब्दस्य कर्मार्थस्याचरणार्थवं शाब्दत्वात् - ग.