________________
सरः ३]
इन्द्रादिविषयमोक्षार्थविद्याश्रुतेस्सद्वारकोपासनापरता
51
तत्त्वमुक्ताकलापः रुद्रेन्द्रादिश्चयत्र स्फुरति परतयाऽनन्यथासिद्धलिङ्गः तत्तत्तत्त्वैर्विशिष्टो हरिरखिलतनुस्तासुविद्यासु वेद्यः। पारम्यं त्वान्यपर्यान भवति न किरित्यादिभिः स्तोत्रवाक्यै
सर्वार्थसिद्धिः का गतिरित्यत्राह रुद्रेन्द्रादिरिति । प्रसिद्धेन्द्रादिलिङ्गानां परमात्मलिङ्गानां चानन्यथासिद्धावुभयानुरोधेन सद्वारकमद्वारकं च तत्तद्विशिष्टब्रह्मोपासनपरत्वं स्वीकर्तव्यमित्यर्थः। कर्मविधिप्रकरणेषु 'न किरिन्द्र त्वदुत्तरः'(ऋक्सं. ३-६-१९-१) इत्यादिभिः प्राकरणिकदेवताप्रशंसापरैर्न तासां परत्वसिद्धिरित्याह-पारम्यमिति ! " न किरिन्द्र " इत्यस्य
आनन्ददायिनी सद्वारकमद्वारकं चेति । इन्द्रादीनां परत्वं न वचनान्तरसिद्धम् ; अवरत्वस्यैव सिद्धेः । न चानेन वाक्येन इन्द्रादेः परत्वसिद्धिः। वाक्यान्तरविरोधात् । न चानेन वाक्येन नारायणस्य परत्वे विरोधः, अस्यापीन्द्रादिशरीरकनारायणपरतयोपपत्तेः । न च तेषामेव वाक्यानां तत्तच्छरीरकेन्द्रादि परत्वं वक्तुं शक्यम्, इन्द्रादीनां तच्छरीरकत्वासिद्धेः । ननु वाक्यान्तरेण परत्वसिद्धेः सर्व कल्प्यत इत्यत्राह--कर्मविधीति । अनेनान्यथासिद्धिः सूच्यते । ननु श्रुत्यर्थत्वे श्रुतार्थबाधेनाप्रामाण्यं स्यादित्यत्राह-न किरिन्द्र इत्यस्येति । किः क इत्यर्थः । बहुलग्रहणात् कादेशाद्यभावे
1 लिङ्गात्तत्त-घ. 2 आदिपदेन 'विश्वस्मादिन्द्र उत्तरः' (ऋक्सं ८, ४, ४, १-२३) 'इन्द्रो यातोऽवसितस्य राजा' (ते. ब्रा. २-८-४) 'अग्निरग्रे प्रथमो देवतानां' (ते. ब्रा. २-४-३) 'राजानौ वा एतौ देवतानां यदग्नीषोमौ' (तै. बा. २-६-२) इत्यादयो ग्राह्या'. 3 परत्वस्यैवासिद्ध ग.4 परत्वं युक्तं वक्तुमिन्द्रादीनाल्ग.