SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 44 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे तत्त्वमुक्ताकलापः [नायक यः प्रोक्तस्सर्वकर्तुः परमखिलतनोर्नापरं किञ्चिदस्तीत्यस्यैव स्यादनूक्तयोत्तरतरकथनं 1 सर्वार्थसिद्धिः ननु " यस्मात् परं नापरमस्ति किञ्चित्" इत्यादिना "तेनेद पूर्ण पुरुषेण सर्वम्" इत्यन्तेन पुरुषसूक्तादिप्रसिद्धं पुरुषमनूद्य " ततो यदुत्तरतरमिदम्" इत्यादिना तस्मात् परस्यैव वेदनममृतत्वादिसाधकमुक्तम् ; स एव सर्वेश्वरः स्यादित्यत्राह - यः प्रोक्त इति । सर्वकर्तृत्वं पुरुषसूक्तार्थप्रत्यभिज्ञया सिद्धम् । अखिलतनुत्वं च " पुरुष एवेदं सर्वम्” इतिवत् " तेनेदं पूर्ण पुरुषेण सर्वम्" इत्यनेन व्यञ्जितम् । यस्मादपरं किञ्चित् परं नास्तीत्यन्वयः । आनन्ददायिनी इत्यारभ्य 'हिरण्यगर्भः' इत्येतदन्ता अष्टावनुवाका नारायणानुवाकान्तर्गता इत्यर्थः ॥ ६ ॥ नन्वस्तु नारायण एवं जगत्कारणं, ततोऽतिरिक्तमेव मुमुक्षपास्यं प्राप्यं चेत्याक्षेपसङ्गत्योत्तीर्णपक्षमाशङ्कते - नन्वित्यादिना । ततो यदुत्तरतरमित्यादिनेति । ततः जगत्कारणत्वेन पुरुषसूक्तप्रतिपाद्यादुत्तरतरमधिकमित्यर्थः । ननु 'यस्मात्परम्' इत्यत्र सर्वकर्तृत्व सर्वशरीरत्वाद्यप्रतीतेर्मूले सर्वकर्तुस्सर्वतनोरित्युक्तिः कथमित्यत्राह - सर्वकर्तृत्वमित्यादिना । ननु यस्मात् परमित्यस्मिन्वाक्ये प्रपञ्चमिथ्यात्वं प्रतीयत इत्यत्राह — यस्मादपरमिति । यस्मात् परमपि नास्ति, 1 1 स्यादनुद्योत्तर - पा ८ मिति वाक्येग. By
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy