SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ तत्त्वबिन्दुः | तरेतराश्रयत्व * माविशति । न चात्रोपाधिविरहो ऽपि । अस्ति खल्वेकाभिधेयधीहेतुभाव+स्त्रयाणामपि वर्णानामेकस्मरण समारोहिणां ग्राव्णामिवैपिठरधारणे यस्मात्पदमिति व्यपदेशः प्रभवति । न चैवमन्योन्याश्रयं न हि पदावधारणाधीनः सम्बन्धबोधः किं तु तदधीनं पदविज्ञानम् । कारकभेदावधायिहि पदपदं पद्यते ऽनेनेति व्युत्पत्त्या । तच्छब्दाश्च कार्य्यसम्बन्धबोधोपहितसीमाना नासति तस्मिन्प्रवर्तितुमीशते । न च स्वरूपभेदस्तावतां तादृशां वर्णानां वर्णान्तरेभ्यस्तेभ्य एव वा तावइस्तावो वा ऽतादृशे यो || न्त्यविज्ञान पारोहिणा मर्थप्रत्ययात् प्राग् न प्रथते येन सम्बन्धिभेदाग्रहे सम्बन्धो न निरूप्येत । प्रकारान्तरवास्तु तेभ्यस्तेषामेव चरमविज्ञाननिवेशिनां विशेषमये वक्ष्यामः । १२ तथा सम्बन्धबोधनाख्यानमप्यमीषामीषत्करं समधिगतैकाभिधेयधीहेतुभावानां च तेषां पश्चात्पदमिति व्यपदेशो नानुपपत्र: । अपि चानंशस्य पदस्य वैशद्या वैशदो न युज्येते । सामान्यविशेषतत्त्वाभ्यामनुभूयमानता हि वैशदां सामान्यमात्रस्य तन्मात्रस्य वा वेदनमवैशदां न च निखिलसामान्यविशेषविरहिणः स्फोटस्यास्फटं दर्शनमुपपाते । स खलुपलभ्यते नोपलभ्यते । न ह्यस्य दृश्यमानस्यास्ति किं चिददृश्यमानम् । न चास्ति सम्भवः स एव * तेनैव तदैव दृश्यते न चेति । अत एव न समारोपः सर्वथा ऽननुभूते तदयोगात् । कथं चिदनुभवें । निरंशत्वानुपपत्तेरपसिद्धान्तप्रसङ्गात् । तस्मादनवयवमेवानुभूयते पदतत्त्वमिति रिक्तं वचः । अत * इतरेतराश्रयमिति ३ पु० पा० । + हेत्वभाव इति ३ पु प | 1 कारकभेदाभिधायोति ३ पु. पा । कारकविशेषाभिधायकम् । 8 कार्ये यः संबन्धबोधः तेन प्रापिता पदभेदरूपा सीमा अवधिर्येषां तादृशा इत्यर्थः । || भिन्नानुपूर्वीकेभ्यः । अर्थज्ञाननैरपेक्ष्येणैव नदीदीनादिपदेषु स्वरूपभेदः प्रत्यक्षसिद्ध एवेति भावः । पान खलुपलभ्यते न वोपलभ्यतइति ३ पु. पा । नोपलभ्यते वेति विकल्प्य वक्ष्यमाणं दूषणद्वयं योजनीयम् । * अत एवेति ३ पु० पा० । + एकदेशावच्छेदेन प्रत्यक्षत्वाङ्गीकारे ।
SR No.010562
Book TitleTattvabindu
Original Sutra AuthorN/A
AuthorGangadhar Shastri
PublisherGangadhar Shastri
Publication Year
Total Pages41
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy