SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १० तत्वबिन्दुः । तकिमिदानीमनुसंहारबुद्धिप्रतिसंधानापेक्षाः प्राञ्चः प्रत्यया यथास्वं गकारादिष्वविदुमेकमवभासयन्ति । ओमिति चेत् हन्त तत्र सत्र चरमविज्ञानसमये प्राचां प्रत्ययानामतिवृत्तत्वात्तत्काले* चरमस्य चेतसो ऽनागतत्वात् उपकरोति असतामसत्रिति चैवमापतितम् । अपि च जन्ममात्रव्यापारत्वेन विज्ञानस्य जातस्या जन्माभावेन विरम्य व्यापारायोगस्तद्विपरीतं चाभ्युपेतं स्यात् । अनपेक्षाश्च प्राञ्चः प्रत्ययाः स्तम्भकुम्भाम्भोरुहावगाहिनदवाभित्रानुव्याधविरहिणः स्वानुभवादासमाना न परस्परं स्वगोचरं भिन्दन्ति || नाप्यनानुभविकः प्रत्ययेष्वेकानुव्याधः शक्यानुमानः नरविषाणवदनुपर्लाब्धविरोधात् । तथा च परस्परव्यावृत्तवर्णमाजगोचरा अनुभतयो भावनोपजननद्वारा नाना वैकं वा स्मृतिप्रत्ययं स्वगोचर एवादधते नान्यगोचरे नाप्यगोचरति । अनुसंहारबुद्धिरपि न परस्परज्यावृत्तवर्णरूपावगाहिनी न तु वानुव्याधवदेकगोचरेत्यनुभवमार्गागतम् । कथं गौरित्येकं पदमित्येकपदावभासिनी धीरस्ति लौकिकपरीक्षकाणाम् । न चेयमनालम्बना नापि वालम्बना तेषां नानात्वात् । नापि सेनावनादिवदौपाधिको । उपाधिः खल्वेकविज्ञानविषयता वा भवेद एकाभिधेयप्रत्ययहेतुता वा । न तावत्पर्वः पतः । अप्रतीतोपाधेहपहितप्रत्ययायोगात् । स्वसंवेदनं संवेदनमनिच्छतामनुसंहारबुद्ध्या स्वरूपायह * प्रायवर्ण ज्ञानकाले । चरमनादाभिव्यञ्जनीयस्य स्फोटस्याट्यवर्ण प्रत्यक्षकाले ऽसत्त्वादसत उपकार्यत्वं चरमवर्णकाले चाट्यानां नाशादसत उपकारकत्वं चापटात इत्यर्थः। + ज्ञातस्येति पु. पा. ।। ज्ञानानामुत्पत्त्यैवार्थप्रकाशकत्वात्तृतीयक्षणे नाशाच्च प्रथमवर्णज्ञानस्यास्फुटपदत्त्वाभिव्यजकत्वं चरमवर्णज्ञानसाचिव्यन तस्यैव स्फुटाभिव्यज्जकत्वमिति न युक्त. मिति भावः। अनपेक्षाः अनुसंहारबुद्धिप्रतिसंधाननिरपेक्षाः । समुदायबुझ्यसहकता इति यावत् । न भिन्दन्ति न व्यावर्तयन्ति । तथा च गोगवयगीतादिप्रत्ययेष्वाटा प्रत्ययैरस्फुटत्वेनेष्टा अपि परस्परव्यावृत्तरूपगवादिपदस्फोटाभिव्यक्तयो ऽनुपपना इति भावः। समुदायात्मकपदस्वरूपज्ञानमपि ।
SR No.010562
Book TitleTattvabindu
Original Sutra AuthorN/A
AuthorGangadhar Shastri
PublisherGangadhar Shastri
Publication Year
Total Pages41
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy