SearchBrowseAboutContactDonate
Page Preview
Page 848
Loading...
Download File
Download File
Page Text
________________ ०५ विरजपूर्वपक्षः। नेति वाचं। बाधकं विना अभावप्रतीतेः प्रमात्वात अन्यथा अत्यन्ताभावान्योन्यभावयारप्रसिद्भिः। अथ साध्य-हेत्वोर्विरोधे पक्षे साध्यसत्त्वे हेत्वसिद्धिः ऽभावत्वप्रतौतेर्भमत्वाभ्युपगमेऽभावत्वस्थ भावाभावसाधारणधर्मविशेषत्वाभ्युपगमे वा इत्यर्थः, 'अत्यन्तेति तत्तदधिकरणविशेषत्वेनैव तदुभयप्रतीतेः सम्भवादिति भावः(१)। ध्वंस-प्रागभावयोरधिकरणस्वरूपत्वे दहेदानोमुत्पन्नो घटध्वंसः दहेदानौं विनष्टो घटप्रागभावइत्यादिप्रतौतेरसम्भवात् तदुभयपरित्यागः(९) । केचित्तु ध्वंस-प्रागभावयोरधिकरणखरूपत्वे घटसत्वदशायामपि तदुभयप्रतीत्यापत्तिः तदानीमधिकरणमत्त्वात् अतस्तदुभयपरित्यागः । न चैवं घटात्यग्नाभावादेरपि अधिकरणस्वरूपत्वे घटापसारणदशायामिव घटसत्त्वदशायामपि तत्प्रतीत्यापत्तिरिति वाचं। अत्यन्तान्योन्याभावपदस्य द्रव्यत्वादिप्रतियोगिकात्यन्ताभाव-तदवछिनप्रतियोगिताकान्योन्याभावपरत्वादित्याजः । 'अथेति, 'विरोधे' निरुतविरोधज्ञानदशायां, 'माध्यसत्त्वे' माध्यज्ञानसत्त्वे, 'हेलसिद्धिः' हेतमत्त्वज्ञानाभावः, तदत्ताज्ञानसत्त्वे (१) अभावत्वस्य भावसाधारणत्वाभ्युपगमे अतिरिक्ताभावकल्पनापेक्षया जाधवेन तत्तदधिकरणेष्वेवाभावत्वकल्पनाया बौचित्यमिति तात्पर्य । (२) तथाच ध्वंस-प्राम्भावयोरधिकरणखरूपत्वे घटध्वंसस्य खाधिकरणा त्मककपालखरूपतया इहेदानीमुत्पन्नो घटध्वंस इति प्रतीतेरसम्भवः कपालस्य प्रागुत्पनत्वेन इदानीमुत्पन्नत्वाभावादिति भावः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy