SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ अवयवः। ७३९ हेतुपदेन ज्ञाने लक्षणा अन्यथा लिङ्गस्या हेतुन्वेन हेतुविभक्त्यानन्वयात्() तथैवाकाङ्क्षानिहत्तेः। 'हेतुपदेनेति हेवपस्थापकधूमादितिपदेनेत्यर्थः, ‘जाने लक्षणा' हेतुज्ञाने लक्षणा, पञ्चम्या ज्ञानविषयत्वरूपं ज्ञाप्यत्वमर्थः, तदेकदेशज्ञाने हेतुज्ञानस्य जन्यतासम्बन्धेनान्वयः, तथाच धूमादिति हेतुवाक्यात् धूमज्ञानजन्यज्ञानविषयत्वमित्याकारकः शाब्दबोधः। ननु धूमपदे कथं धूमज्ञाने लक्षणा धूमस्यैव जन्यतासम्बन्धेन ज्ञानेऽन्वयः स्थादित्यताह, 'अन्यथेति हेतुपदे हेतुज्ञाने लक्षणांनङ्गीकारे, 'विभक्त्यानन्वयादिति पञ्चमौविभक्त्यर्थ हेतोरनन्वयापत्तेरित्यर्थः, अनन्वये हेतुमाइ, 'लिङ्गस्या हेतुत्वेनेति माध्यज्ञाने लिङ्गस्या हेतुत्वेनेत्यर्थः, लिङ्गज्ञानस्यैवानुमितिहेतुत्वादिति भावः। ननु लिङ्गोपहितलैङ्गिकभानादिमते लिङ्गस्याप्यनुमितिविषयतया विषयतासम्बन्धेन हेतोरन्वयोऽस्तु पञ्चम्यर्थैकदेशे जाने इति किं लक्षणयेत्यत आह, 'तथैवेति जन्यतासम्बन्धेन धूमज्ञानस्य ज्ञानेऽन्वयनैवेत्यर्थः, 'श्राकाङ्क्षानिवृत्तेरिति कारणकाङ्गानिवृत्तेरित्यर्थः, वजिज्ञाने धूमज्ञानजन्यवसिद्धौ जायमानायां धुमज्ञानेऽपि तुल्यवित्तिवेद्यतया वकिज्ञानजनकत्वसिद्धेरिति भावः । ननु एतल्लक्षणं धूमादालोकवान् पर्वतोवहिमानित्यादिप्रतिज्ञायामतिव्याप्तं तस्यापि पञ्चम्यन्तलाक्षणिकधमपदवत्त्वादिति चेत्। न। प्रकृतपक्षविशेष्यक-प्रकृतसाध्यप्रकारकाग्वयबोधजनकाकाङ्क्षा-तात्पर्यादिमत् यत् प्रकृतमाध्यतात्पर्यकं पदं (१) विभक्त्यानन्वयात् इति पा०। .
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy