SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ केवलान्वय्यनुमान। ताभावः प्रतियोगिरूप इति प्रतियोगिसमानदेशोऽन्योन्याभावो न स्यादिति चेत् । न । अत्यन्ताभावा विशेषेणैव तयोविरोधात् तथा घटाद्यन्योन्याभावाभावस्थ घटादिरूपत्वेऽपि संयोगादिना घटादिमति घटाद्यन्योन्याभावो वर्त्तते तदात्म्य-विशेषणताभ्यामेव तयोविरोधात् इति सुवचत्वात् । न च तथापि घटान्योन्याभावाभावस्य घटरूपत्वे घटे घटान्योन्याभावो नास्तौति प्रतीतिर्न स्यात् तादात्म्यसम्बन्धस्य वृत्त्यनियामकत्वात् अन्यथा(१) घटे घट इत्यपि प्रतीत्यापत्तेरिति वाच्यम्। तादाम्यसम्बन्धस्य घटत्वावच्छिन्नवृत्त्यनियामकत्वेऽपि प्रतौतिबलात्(२) अन्योन्याभावात्यन्ताभावलावच्छिन्नवृत्तिनियामकत्वस्य सुवचत्वात् । वस्तुतस्तु यत्र प्रतियोगिनो नानात्वं प्रतियोगितावच्छेदकधर्मश्चैकस्तत्र प्रतियोगिनां नान्योन्याभावाभावत्वसम्भवो गौरवात् किन्तु प्रतियोगितावच्छेदकरूप एव तदभावः। न चैवं यत्र प्रतियोगिनो नानात्वं प्रतियोगितावच्छेदकश्चैकस्तत्रात्यन्ताभावाभावस्थापि प्रतियोगिरूपलं न स्थात् लाघवात् खाश्रयात्मकपरम्परासम्बन्धेन प्रतियोगितावछेदकस्यैव तथावौचित्यादिति वाच्यम्। स्वाश्रयात्मकपरम्परासम्बधेन घटत्वादेरेव घटात्यन्ताभावाद्यभावरूपत्वे घटशून्यदेशे घटा (१) तादात्म्यस्य वृत्तिनियामकत्व इत्यर्थः। (२) घटे घटान्योन्याभावो नास्तीति प्रतीतिसामर्थ्यात् तादात्म्यसम्बन्धस्य घटान्योन्याभावात्यन्ताभावत्वावच्छिन्नत्तिनियामकत्वं न तु घटत्वावच्छिन्नत्तिनियामकत्वं घटे घट इति प्रतीतेरसिद्धेरिति ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy