SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ केवलान्वय्यनुमान। योगित्वे अत्यन्ताभावप्रतियोगित्वमेव केवलान्याय, अत्यन्ताभावप्रतियोगित्वे यन्निष्ठात्यन्ताभावप्रतियोग्यत्यन्ताभावप्रतियोगित्वं तदेव केवलान्वयि । न चात्यन्ताभावप्रतियोगित्वं व्याहत्तत्वञ्च नानेति वाच्यम्। यत्र माध्याभाववदवृत्तित्वरूपव्याप्तिज्ञानादनुमितिस्तदनुमानस्य केवलान्वयि-केवलव्यतिरेक्युभयत्वापत्तेश्च माध्याभाववदवृत्तित्वरूपव्याप्तिज्ञानं प्रति अन्वय-व्यतिरेकोभयसहचारज्ञानस्यैवाहेतृत्वात् । अन्ये तु वयादिसाध्यकमपि कदाचित् केवलान्वयिमाध्यकं यदान्वयव्याप्तिज्ञानमावादनुमितिः, वाच्यत्वादिसाध्यकमपि कदाचित् केवलव्यतिरेकि यदा व्यतिरेकव्याप्तिज्ञानमात्रादनुमितिः, कदाचिचान्वय-यतिरेकि यदान्वय-व्यतिरेकोभयव्याप्तिज्ञानादनुमितिः, अन्वयव्याप्तिज्ञानवत् व्यतिरेकव्याप्तिज्ञानस्याप्यनुमितिहेतुत्वात् तथाच व्यतिरेकव्याप्तिज्ञानाजन्यानुमितिकरणत्वं केवलान्वयिसाध्यकानुमानत्वं, तादृशानुमितिलञ्च केवलान्वयिसाध्यकानुमितित्वं, व्यतिरेकव्याप्तिज्ञानञ्च साय-तदभावादिरूपतद्घटकतावत्पदार्थानां तथाविधपरस्परोपश्लेषावगाहिज्ञानं, तेन यत्राखण्डव्याप्तेरप्रसिद्धिस्तत्र नाव्याप्तिः, न वा केवलान्वयिन्यप्रसिद्धिः खण्डशः प्रसिद्ध्या भ्रमरूपस्य तादृशज्ञानस्य तत्रापि सम्भवात् एवमग्रेऽपि। अन्वयव्याप्तिज्ञानाजन्यानुमितिकरणत्वं केवलव्यतिरेक्यनुमानत्वं, तादृशानुमितित्वञ्च केवलव्यतिरेक्यनुमितित्वं, अन्वय-व्यतिरेकोभयव्याप्तिज्ञानजन्यानुमिति
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy