SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ५५४ तत्त्वचिन्तामणौ ठते, तथाभिधेयत्वविपक्षस्यानभिधेयत्वेऽपि पदादुपस्थितिः स्यात, एवञ्चाभिधेयत्वं कुतोऽपि व्यावृत्तं धर्म भाववान् यस्य तत्केवलान्वयीत्यर्थ:(१) । न च सियमिद्धिव्याघातः, अत्यन्ताभावप्रतियोगितानवच्छेदको यो धर्मः तहत्त्वं तेन रूपेण केवलान्वयित्वमिति विवक्षितत्वात् । तादृशधर्मावच्छिन्नमाध्यताकबञ्च केवलान्वयिमाध्यताकत्वं, माध्यता च व्यापारानुबन्धिनौ विधेयता, स्वकरणकानुमितिविधेयतेति यावत्, तेन व्याप्यादिज्ञानरूपे अनुमाने वाच्यत्वादेरविधेयत्वेऽपि न पतिः, तथाचात्यन्ताभावप्रतियोगितानवच्छेदकधर्मावच्छिन्नविधेयताकानुमितिकरणत्वं केवलान्वयिसाध्यकानुमानत्वमिति निष्कर्षः। अनुमितिविभागपक्षे च माध्यता विधेयतैव तथाचात्यन्ताभावप्रतियोगितानवच्छेदकधविच्छिन्नविधेयताकानुमितित्वं केवलाम्वयिसाध्यकानुमितित्वमिति निष्कर्षः। वाच्यत्वादेर्व्यतिरेकित्वभ्रमदशायामपि तत्माध्यकं केवलावयिसाध्यकमेव, वयादिरूपव्यतिरेकिसाध्यकन्तु कदाचिदपि न केवलान्वयिसाध्यकमिति भावः । (१) न च विपक्षपदस्याभावपरत्वेनापि पसन् विपक्षः अमावोयस्य तत् केवलान्वयि इति सामनस्ये विपक्षपदस्याभाववत्परत्वं विफल मिति वाच्यं । गगनाभावस्य केवलान्वयित्वानुपपत्ते गगनखरूपस्य तदभावस्य विद्यमानत्वात्, विपक्षपदस्थाभाववत्परत्वे तु गगनस्यारत्तिपदार्थत्वात् गगनाभावाभाववतो न कुत्रापि सत्त्वमिति । .
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy