SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ सामान्यलक्षाया। २०८ विशेषणधौजन्यत्वानभ्युपगमात् विशिष्टवैशिष्ट्यज्ञानत्वात्। अपि च प्रमेयत्वेन व्याप्तिं परिच्छिन्दन सर्वशः स्यात, तथाच परकीयज्ञानविषये घटत्वं न वेति कारणकत्वस्य माध्यत्वेऽप्रसिद्यापत्तेः, पर्वतीयवहिलिङ्गकानुमिति प्रत्यपि पर्वतीयवझिविषयकव्याप्तिज्ञानत्वेन ज्ञानवेनैव वा हेतुत्वादिति ध्येयं। 'विशिष्टज्ञानत्वात्' पर्वतीयवहिविशिष्टज्ञानत्वात्, पर्वतीयवहिमान् इत्यनुमितिर्दृष्टान्तः, 'तत्कल्पन इति वशित्वज्ञानस्य सामान्यतः मामान्यलक्षणात्वेन प्रत्यासत्तित्वकल्पने इत्यर्थः, 'तथा' धमत्वज्ञानस्य प्रत्यासत्तित्वं बोध्यं, सामान्यतः सामान्यप्रकारकज्ञानत्वेन कारणत्वं सामान्याश्रयमुख्यविशेष्यकप्रत्यचत्वावच्छिन्नं प्रति, तथाच धूमत्वादिप्रकारकज्ञानस्यापि प्रत्यासत्तित्वमायातमिति भावः। ननु तथापि सामान्यलक्षणत्वं न प्रत्यासत्तित्वावच्छेदकं सामान्याश्रयत्वस्य केवलान्वयितया एकस्य मामान्यस्य ज्ञाने जगत एव प्रत्यक्षापत्तेः अतो विशिष्यैव मा वाच्या तथाच वहिवसामान्यलक्षणयाः प्रत्यासत्तित्वसिद्धवावपि धमत्वसामान्यलक्षणायाः प्रत्यासत्तिले मानाभावः इत्यरुचेराह, 'कचिदिति, 'व्यापकत्वात्’ माध्यत्वात्, तथाच पर्वतो धूमवानित्यमनिष्टधूममाध्यकानुमितेर्विशेषणज्ञानजन्यत्वानुरोधेन धूमत्वसामान्यलक्षणयाः प्रत्यासत्तित्वमावश्यकमिति भावः। ननूकानुमाने नियमग्राहकानुकूलतर्कस्तावद्विशिष्टवैशियज्ञान प्रति विशेषणतावच्छेदकप्रकारकविशेषणज्ञानत्वेन हेतुताग्रह एव
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy