SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ पार्थविवरणार्यदीपिका । पंचत्रिशत्तमसू० टी० ३६७ : वेति । स्वविषयनियमात्-स्वविषयस्य सन्निकर्ष लिङ्गसाश्वपदवृत्यादिना नियतपरिच्छेदकत्वात् । यथा प्रत्यक्षादीनां विषयाभेदेऽपि सामग्रीभेदाभेदस्तथा नयवादानां, न च विप्रतिपतित्वमिति स्पष्टोऽर्थः । इदन्तु ध्येयम्, एकशब्दजन्यानामपि शक्यलक्ष्यव्यङ्ग्यप्रतीतीना यथा वृत्तिभेदाद् भेद तथा नयधियामपि स्वस्तार्थवृतितदितरोपचाराभ्याम् , एतच्च नयज्ञानमेककोटिकापात्संशयसमुच्चयाभ्यामतस्मिंस्तन्निश्चायकत्वाभावाद्विप्रमासंपूर्थिवाहित्वाभावाच्च महावाक्यजन्यप्रमाणबोधाद्विलक्षणमिनि जात्यन्तरमेव । तदवदाम , धशालिविविधपर्यायग्राहिणोऽपि न विप्रतिपत्तिरूपास्तथा नयवादा अपीति । स्वस्वार्थवृत्तितदितरोपचाराभ्यामिति वं द्रव्यार्थिकन यस्तस्य यः स्वार्थः स्वविषयोऽभेद स्तन वृत्तिर्मुख्याश्रयणं तदितरस्मिन् भेदरूपे विषये उपचारो गौणवृत्याश्रयणम् , एवं पर्यायनये तपिरीयं, ताम्यामित्यर्थः । एतच नयज्ञानं संशयसमुच्चयाभ्यां विलक्षणमित्यन्वयः। तस्य संशयसमुच्चयबैलक्षण्ये को हेतुरित्यारेकायामाह एककोटिकत्वादिति । एकप्रकार तामात्रनिरूपकत्यादित्यर्थः । अत्र नयज्ञानं संशयात्मकं न एकप्रकार तामात्रनिरूपकत्वात् , उभयसप्रति पन्ननिश्चयवदित्यनुमानप्रयोगः । उक्तहेतोरेव तन्न समुच्चयात्मकमपि । ननु संशयसमुच्चययोः को भेद इति चेत् , उच्यते, एकत्र धर्मिणि विरुद्धनानाधर्मप्रकारकज्ञानं संशय इति लक्षणे एकस्मिन् वृक्षे विभिन्नावच्छेदेन कपिसंयोगतदभावप्रकारकज्ञानस्य प्रमात्मकस्य संशयत्वं मा प्रसाङ्गीदित्येदर्थ विरुद्धत्वस्य नानाधर्मविशेषणत्वं परेणापि स्वीक्रियते, विरोधभाने चाऽव्याप्यवृत्तित्वज्ञान प्रतिवन्धकमिति तदभावः कार्यसहभावेन प्रतिवन्धकामावविधया कारणमिति कारणीभूताऽव्यावृत्तित्वज्ञानाभाववाटितसामन्या संशये धर्मविशेषणतया संसर्गतयाचा विरोधो भासते, न समुच्चये, यद्वा संशये सन्देनीत्यनुव्यवसायसिद्धा विलक्षणविषयता स्त्रीक्रियते, न समुचये, तत्र समुच्चिनोमीत्यनुव्यवसायसिद्धविषयतास्वीकारात्, अन्ये तु संशये प्रकार ताद्वयनिरूपिता एका विशेष्यता, अभिनेत्र विशेष्यता, समुचये तु यद्यपि संशयवद् विशेष्यवयक एव तथापि तनिष्टा विशेष्यता प्रकारताभेदेन भिन्नत्याहुः, तथा च संशयज्ञानधर्मिनिष्टविशेष्यतानिरूपक तनिष्टप्रकार करने सति तद्विरुद्धतदमावनिष्ठप्रकारताकम् , यद्वा तनिष्ठप्रकारतानिरूपिता या तद्विरुतद भावनिष्ठप्रकार तानिरूपितकर्मिनिष्ठा विशेष्यता तन्निरूपकज्ञानम् , समुच्चयज्ञानञ्च नानाधर्मनिष्ठप्रकारताकैकधर्मिनिष्ठनानाविशेष्यताकम् , य?कधर्मनिष्टप्रकारतानिरूपितमिनिष्ठविशेष्यताभिन्नविशेष्यतानिरूपिततदन्यधर्मनिप्रकारताकज्ञानमिति, ताभ्यां नयज्ञानं मुख्यविधयैकधर्मनिष्ठप्रकारतानिरूपितैकधर्मिनि४विशेष्यतानिरूपकत्वाद् भिन्नमिति भावः । विभ्रमाद्विलक्षण नयज्ञानमित्यत्र हेतुमाह-अतस्मिन्निश्चायकत्वाभावादितितदमानवनि विशेष्यतानिरूपिता या तनिष्टप्रकारता तन्निरूपकत्वेनायथार्थ विभ्रमज्ञानम् , नयब्रानं तु तद्वनिष्टविशेष्यतानिरूपिततनिष्टप्रकारताकत्वेन यथार्थमिति तद्विलक्षणं तदिति भावः । सतमात्मकमहावाक्यजन्यप्रमाणवोधाद्विलक्षणमित्यत्र हेतुमाह-सम्पूर्णार्थवाहित्वाभावाचेति-सप्तमात्मकमहावाक्यजन्य सप्तधर्मनिषकारताकै धमिनिष्ठविशेभ्यताकासण्डा०६-.
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy