SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ पार्थविवरणगूढार्थदीपिका | पंचत्रिंशत्तमसू० टी० : ३५६ : गृह्णाति, न तु शब्दनयः, तज्जन्यशाब्दबोधे ततः कृष्णत्वादिनैव भानादिति न नानार्थकत्वोच्छेदः । सङ्ग्रहनये तु न किंचित्पदं नानार्थं नवाऽर्थो नाना । हन्तैवं यथोक्तटेष्वेवेति कोऽयं सङ्कोच; वर मात्र भ्युपगतम्, तत्र हेतुमाह-तज्जन्यशाब्दबोध इति । कृष्णत्यादिनैवेति- कृष्णत्व सिंहत्यादिप्रत्येकधर्मेणैवेत्यर्थः, अत्रैवकारेण संग्रहनये यथाऽन्यतरत्वेन भानं न तथा शब्दनय इति प्रतिपादितम्, तन्मते नाऽन्यतरस्याद्यनुगतधर्मानभ्युपगमादिति भावः । न नानार्थकत्वोच्छेद इतिकृष्णत्व सिंहत्वादीनां प्रवृत्तिनिमित्तानां शब्दनये भेदाभ्युपगमेनार्थभेदाभ्युपगमादिति भावः । न किश्चित्पदं नानार्थमिति घटपटादिशब्दानां तद्वाच्यव्यक्तिभेदान्नार्थभेदः, तथा सति घटशब्द'स्यापि तद्वाच्यतत्तद्घटव्यक्ति मेरे नार्थ भेदः स्यात्, किन्तु प्रवृत्तिनिमित्तभेदादेव, न च हर्यादिपदे सोऽस्ति, विष्णुसिंहादिगतान्यतरत्वरूपस्य प्रवृत्तिनिमित्तस्यैकत्वादिति हर्यादिपदसपिन नानाकमित्यर्थः । नवाऽर्थो नानेति अनुगतेनान्यतरत्वेन रूपेण नानार्थानामै क्यादिति भावः । ननु जगदन्तवर्त्तिनिखिलपदार्थानामेव सच्चेन रूपेणानुगताध्यवसायः सङ्ग्रहरसम्भवतीति नामस्थापनाद्रव्यभाववटेष्वेव घटत्वेनैकत्वाध्यवसायः सग्रह इति किमिति महासामान्यापेक्षयाङचान्तरसामान्यस्य सङ्कुचिताश्रयकत्वेन तद्ग्रहणस्य सङ्कोचरूपत्वात्सङ्कोचः क्रियत इति चेत्, उच्यते, पूर्व यद्धर्मप्रकारेण वस्तुनो ग्रहणमाश्रित्य पचाद्विशेपाssकलनपूर्वकं तत्परित्यज्य तद्वान्तरधर्मप्रकारेण ग्रहणलक्षणविमजनं नयान्तरेण क्रियते तत्र तद्धर्मप्रकारेण वस्तुन एकरूपतया ग्रहणमेवापरसग्रहोऽभिमन्यते इति यदा घटलेन नामघटस्थापनावटद्रव्यवभावघटाना+यं पूर्वं तेन गृहीत्वा पञ्चाद्विशेषपर्यालोचनेन तत्परित्यज्य नामघटस्थापनावटद्रव्यघटभाववटानां घटत्वावान्तरथ रूपनामवटत्वस्थापनावटत्वादिभिः पृथगेव ग्रहणं व्यवहारनय उरीकरोतीति स तेषां तत्प्रकारेण भेदमेव मनुते, तत्र घटत्वेन रूपेण तेषां नामस्थापनादीनामैक्यग्रहणमेवापरसंङ्ग्रहः समाश्रयति । महासामान्याख्यसचेन यद्यपि सर्वेपामैक्यं समस्त तथापि न कोऽपि सङ्ग्रहृतरनयः पूर्वं तथाऽभ्युपेत्य पश्चाद्विशेषपर्यालोचनेन तत्परित्यज्य तद्वापरसामान्यरूपेण वस्तुविभजनं करोति ततो न महासामान्यं नयान्तरविषय इति तद्रूपेण सर्वेषामैक्याध्यवसायलक्षणसङ्ग्रहो नेतरनयग्रहस्य विनिर्मोकः, किन्तु सङ्ग्रहस्य तत्र विश्रान्तिरेवेत्यतः परनयविपयीकृतानेकस्वरूपनामादिषटेष्वेकत्वाध्यवसाय मपरसङ्ग्रह सङ्कोचितस्वरूपमादृत्याशङ्कोत्तराभ्यामाह हन्तेवं यथेोघदेष्वेति कोऽयं सङ्कोच इति । यद्यपि नैगमनयो महासामान्यमपि गृह्णाति, अवान्तरसामान्यादिकमपि तथापि स पूर्व महासा मान्यं गृहीत्वा पश्चात्तद्विशेषाकलनेन न तत्परित्यजति तेन नैगमनयेनापक्षपातितया महासामान्यावान्तरसामान्योभयस्य स्वीकृतत्वात्, न वा महावादिश्रीसिद्धसेनदिवाकरमते नैगमनयोऽतिरिक्तोऽस्ति, महासामान्यविपयकस्य तस्य संग्रहरूपत्वात्, अवान्तरसामान्यादिविषयकस्य तस्य व्यवहाररूपत्वात् व्यवहारनयग्रहस्तु महासामान्यप्रकारको न भवत्येवेति तत्प्रकारक ग्रहणं पूर्वमासाद्य पश्चात्तद्विशेषपर्यालोचनेन न तद्विनिमत्तत्परित्यागः, किन्दारं ,
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy