SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ : २५६ : तत्वार्थविवरणगूढार्थदीपिका । विंशतिसू० टी० लपियोरेव तयोस्तन्निर्देशात्, उपयोगरूप तु श्रुते मतिरेवावहादिसपा कारणमित्यदोषः । श्रुत्वा या भतिस्पचते सा श्रुतपूर्वा सादित्यविशेष इति चेत्, न, तस्या द्रव्यश्रुतपूर्वकत्वेऽपि मावश्रुतपूर्वकरनामावात् । भा२श्रुतादनन्तरं तु मतिः कार्यतया नास्ति, क्रमेण भवन्ती तु ता न निवारयामः, अन्यथा मरणावधि श्रुतमात्रोपयोग सङ्गात् । कारणान्तरसिद्धचोपरमकालीनस्थितिकसुवर्णस्थानीयमत्या स्वविशेषरूपकणादिस्थानीयश्रुतोपयोगजननाच्छुतस्यैवकार्यत्वं मतिश्रुतयोलन्धिरूपयोर समकालत्या कार्यकारणभावाभावः, मतिपूर्व श्रुतमिति तु श्रुतोपयोगमाश्रित्यैवोक्तमिति स एव भतिज्ञानप्रभवः, उपयोगरूपयोमतिज्ञानश्रुतज्ञानयोस्तथास्वाभाव्यात्क्रमिकोत्पादानुभवादित्येवमन्युपगमेन नोक्तदोष इत्युत्तरयति-लब्धिरूपयोरित्यादि-श्रुत्वेत्याद्याशङ्कय तन्निपेवे हेतुमाह-तस्याद्रयश्रुतपूर्वकत्वेऽपि भाव श्रुतापूर्वक्रत्याभावादितिपरमाच्छन्दं श्रुत्वा जायमानाया मतेश्श्रावणप्रत्यक्षात्मकमतिज्ञानानुकूलक्षयोपशमोद्रोधकस्य सदस्य मतिहेतुत्वात्तद्रूपद्रव्यश्रुतहेतुकत्वेऽपि भावश्रुतहेतुत्वामान न मतो भावश्रुतपूर्वकत्वमित्यर्थः । ननु भाव श्रुतादूध नतिः किं सर्वथा न भवतीत्याशङ्कानिवृत्यर्थमाह-भावश्रुतादनन्तरन्त्यिति । क्रमेण भवन्ती तुतां न निवारयाम इति-एकस्मिन्नर्थे श्रुतोपयोगो ह्यान्तर्मुहतिक इति तन्नाशान्तरं निजकारणालापा-मत्युपयोग उत्पद्यते, तस्याप्य कस्मिन्नर्थे आन्तर्मुक्तिमत्वातदुपरमे श्रुतोपयोगः, पुनरपि तद्विनाशे मत्युपयोग इत्येवं क्रमेणोत्ययमानां तु मति न निवारयामः, श्रुतोपयोगाच्च्युतस्य मत्सुपयोग एवावस्थानादिति भावः । तथाऽनभ्युपगमेऽतिप्रसङ्गमाह-अन्यथेति । कारणान्तरसिद्धं यत्पूर्वोत्तरविशेषानुगतं सत्वकापिरमेऽप्यवतिष्ठते तत्कारणमेव, न स्वविशेषरूपस्य कार्यरूपं, तद जन्यत्मात् , यया सुवर्णद्रव्यं तथा मतिरित्याशयेनाह-कारणान्तरसिद्धत्यादि-कारणान्तर सिद्धं सत् स्वस्य स्वविशेषरूपस्य कणादेयं उपरमो विनाशः, तत्कालीनस्थिति कञ्च यत्सुवर्ण तब सामान्यरूपत्वेन तत्स्थानापनमयेत्यर्थः । इदमुक्तं भवनि कणाशुलीयकादिषु पूर्वोत्तरपर्यायेष्वनुगतत्वात् स्थायिभूतेन सुवर्गेन कङ्कणादयो जन्यन्ते अतस्ते तत्कार्यभूताः, सुवर्ण तु कङ्कणादिपर्यायाजन्यत्यान्न तत्कार्यव्यपदेशं लभते, तस्य कारणान्तरेभ्यस्सिद्धत्वात् , कङ्कणादिरूपत्वपीयोपरमे तु सुवर्णभेवावतिष्ठत इति तद वस्थानं क्रमेण न निवार्यते, एवं मत्यापि सामान्यभूतया स्त्रविशेषरूपश्रुवोपयोगो जन्यते अतस्तकार्य स उच्यते, मतित्वतजन्यत्वात् तत्कार्यतया न व्यपदिश्यते, तस्या हेत्वन्तरासदासिद्धत्मात्, स्वविशेषभृतश्रुतोपयोगोपरमे तु क्रमायातं भत्यवस्थानं न निवार्यते, अन्यथाऽऽमरणान्तं केवलश्रुतोपयोगप्रसङ्गादिति । ननु सुवर्णद्रव्यं यथा कालत्रयानुगतं न तथा मत्युपयोगः, कारणं हि कार्यरूपेण परिणममानं तदानीमपि वर्तते इति स्वकार्यभूतणादिकाले सुवर्णवन्न स्वकार्यभूतश्रुतोपयोगकाले मत्युपयोगी विद्यत, सिद्धान्त હાવિનોપયોકાવુપમાદ્રિતિ સુવર્ણદ્રવ્યદાન્તન ચુપચારત્વ मत्युपयोगस्योक्त सङ्गच्छते इत्येतदशियानित्तये श्रुतोपयोगकारणत्वं द्रव्यार्थिकनयेन लब्धि
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy