SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ तत्वार्थविवरणगुढार्थदीपिका । पं० सू० टी० : १३७ : कृतिवदिति । यथेन्द्रादीनां प्रतिकृती रचितेन्द्रादिव्यपदेशं लभते, एवं जीवस्य काष्ठादिषु प्रतिकृतिः कृता स्थापनाजीव इत्यभिधीयत इत्यर्थः ॥ द्रव्यजीवनिक्षेपमाह-द्रव्यजीव इति उच्यत इत्यनेन सम्बन्धः । अनादिपारिणामिक भावोऽर्थाज्जीवत्वं तेन युक्तो गुणपर्यायैर्वियुतः ( : ), वास्तवतथात्वासम्भवादाह-प्रज्ञास्यापितः - प्रज्ञया बुद्ध्या कल्पितः । वैज्ञानिकसम्बन्धेन गुणपर्यायवियोगवान् गुणपर्यायवियुक्तत्वप्रकारक बुद्धिविषयो वेति यावत् तादृशो जीवो द्रव्यजीव इत्युच्यत इति वाच्यार्थः । इतिरवास्तवत्वद्योतकः । द्रव्यजीवादिनिक्षेपस्थले द्रव्यपढ प्रवृत्तिनिमित्तं गुणपर्यायवियुक्तत्वप्रकारक बुद्धिविषयत्वं वैज्ञानिकसम्बन्धेन तद्वियोगवत्त्वं चेति निर्गलितोऽर्थः । ननु सता गुणपर्यायाणां बुद्ध्या नापनयः शक्यः कर्तुम् । यतो न ज्ञानायचाऽर्थपरिणतिः, ' अर्थो यथा यथा विपरिणमते तथा तथा ज्ञानं प्रादुरस्ति' इतिवस्तुस्थितिमभिप्रेत्याह-शून्योऽयं भङ्गः । शून्य इति न सद्भावान्नातिव्याप्तिरिति । निक्षेपभेदप्रस्तावे द्रव्यजीव इति यः प्राक्तृतीयभेद उपन्यस्तस्तन्निरूपणायाह- द्रव्यजीवनिक्षेपलक्षणमाहेनि । गुण पर्यायैरिति-स्वानुगतस्वभावसिद्ध चैतन्यसुखादिभिस्सहभाविभिर्गुगैस्स्वाननुगततचत्कालोत्पन्नतत्तज्ज्ञानवैषयिक सुख दुःखहर्प शोकादिभिः क्रमभाविभिः पर्यायैश्चेत्यर्थः । ननु न कोऽपि कदाऽप्यात्मा ज्ञानाद्यशेषगुणपर्यायविनिर्मुक्तो दृश्यते, निगोदजीवानामप्यक्षरानन्ततमो ज्ञानभागो नित्योद्घाटित इति सिद्धान्ते प्रतिपादनात् । यदाह-"सव्यजीवाणं पि य णं अक्खरस्स अनंतमो भागो, निच्चुग्धाडिओ चिट्ठ, सोविअ जइ आवरिजा तेणं जीवो अजीवत्तणं पाविजा " इति । अन्यथा गुणपर्यायवद् द्रव्यमिति लक्षणे सर्वकालनियतसच्वलक्षणनित्ययोगे मतुव्विधानादुक्तलक्षणस्यैवाऽनुपपत्तिस्यादित्याशङ्कायामाह-वास्तवतथात्वासम्भवादाह-प्रज्ञास्थापित इति । तदर्थमाह-प्रज्ञयेति । तस्यापि तात्पर्यार्थमाह-वैज्ञानिकसम्बन्धेनेत्यादि । अर्थो यथा यथा विपरिणमते तथा तथा ज्ञानं प्रादुरस्ति' इति - अर्थो जीवादिवस्तु येन येन पर्यायेण विपरिणमते यं यं पर्याय परिणाम - मासादयति तत्तत्पययिविशिष्टतयैवार्थज्ञानं भवति, तथा च गुणपर्यायानुगामितयैवात्मद्रव्यस्य सर्वदा प्रतीतेर्गुणपर्यायवियुक्तस्यात्मनोऽभावात्तथा बुद्धिरेवासम्भविनीति न तया द्रव्यजीवस्थापना युक्तेत्यर्थः । यद्वस्तु भूतकाले विवक्षितपर्यायरूपेण परिणतं तद्वस्तु भूतपर्यायकारणत्वावर्तमानकाले द्रव्यरूपमुच्यते, अनुभूतदेवस्त्रपर्यायमनुष्यो द्रव्येन्द्रवदनुभूतधृताधारत्वपर्यायरिक्तघृतवटवच, यच्च वस्तु भविष्यत्काले विवक्षितपर्यायरूपेण परिणंस्यति तद्व भविष्यत्ययकारणत्वाद्वर्तमानकाल विद्यमानं सद्भविष्यत्पर्यायापेक्षया द्रव्यरूपमुच्यते " मिउपिंडो दन्त्रघडो सुसागो तह य दव्यसाहुत्ति | साहू य दव्वदेवो एमाइ सुए जओ भणिअं ||१||" इति सिद्धान्तवचनादनु भविष्यत्साधुत्वपर्याया श्राद्धे द्रव्यसाधुत्ववत्, अनुभविष्पदेवेन्द्रपर्याया साधौ द्रव्येन्द्रत्ववदनु भविष्यद्धृताधारत्व पर्यायघृतघटवञ्च यद्वस्तु भूतभावस्य 34..
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy