SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ तस्वार्थविवरण सार्थदीपिका । पं० सू० टी० शक्तिनियन्त्रणं तदंशस्य मुख्यत्वेन मुख्यार्थवाचादिस्थले तस्या अपि-सावकाशवात् , केवल विहितनिक्षे-- पान्तरस्थले सा निरूता, अन्यत्र तु प्रयोजनवती, तळून्या च निषिद्धा इति विवेकः । ननु यदि निक्षेपचतुष्टयं शक्तिसङ्कोचनोच्यते - तर्हि -ततोऽपि नूनं क्रियतामिति चेत्, सत्यम् , तदिदं नयाणिया भविष्यति । न तु प्रमाणापणया, उभयनयावलम्बनेन तस्याः प्रवृत्तः, तदिदमभिप्रेत्याह' भाप्यकार: (भा०) एमिनामादिभिश्चतुर्भिरनुयोगद्वारस्तेषां जीवादीनां तत्वानां न्यासो भवति । वितरण लक्षणतो विधानतश्चाधिगमार्थ न्यालो निक्षेप इत्यर्थः । तद्यथा-नामजीवः स्थापनाजीवो द्रव्यजीवो भावजीव इति । नाम संज्ञा कर्म इत्यनर्थान्तरम् । चेतनावतोऽचेतनस्य पा द्रव्यस्य जीव इति नाम क्रियते स नामजीवः ॥ यः काठेपुस्तचित्रकर्माक्षनिक्षेपादिपु स्थाप्यते जीव इति स स्थापनाजीवो देवताप्रतिकतिवदिन्द्रो रुद्र: स्कन्दो विष्णुरिति । द्रव्यजीव इति गुणपर्यायवियुक्तः प्रज्ञास्थापितोऽनादिपरिणामिकमावयुक्तो जीव उच्यते । अथवा शून्योऽयं महः । यस्य जीवस्य सतो भव्य जीवत्वं स्यात् स द्रव्यजीवः स्यादनिएं चैतत् ॥ भावतो जीवा औपशमिकक्षायिकक्षायोपशमिको. दयिकपरिणामिकभावयुका उपयोगलक्षणाः संसारिणो मुकाश्च द्विविधा वक्ष्यन्ते ॥ एवमजीवादिषु सवनुगन्तव्यम् ॥ पर्यायान्तरेणापि नामद्रव्य स्थापनाद्रव्यं द्रव्यद्रव्यं भावतो द्रव्यमिति । यस्य जीवस्य पा अजीवस्य वा नाम क्रियते द्रव्यमिति तनामद्रव्यम् । यत्काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते द्र०यमिति तत्स्थापनाद्रव्यं, देवताप्रतिकृतिदिन्द्रो रुद्रः स्कन्दो विष्णुरिति । द्रव्यद्रव्य नाम गुणपर्यायवियुक्तं प्रक्षास्थापितं धर्मादीनामन्यतमत् । केचिदन्याहुर्यद्रव्यतो द्रव्यं भवति तच्च पुद्गलद्रव्यमेवेति प्रत्येतव्यम् । अव. स्कन्धाश्च सड्यातमेदेभ्य उत्पद्यन्त इति वक्ष्यामः । भावतो न्याणि धर्मादीनि सगुणपर्यायाणि प्राप्तिलक्षणानि वक्ष्यन्ते । आगमतश्च प्राभृतज्ञो प्र०यमिति भव्यमाह ·। द्रव्यं च भव्ये । भव्यमिति प्राप्यमाह । भू प्राप्तावात्मनेपदी । तदेवं प्राप्यन्ते प्राप्नुवन्ति वा द्रव्याणि ॥ एवं सर्वेषामनादीनामादिमतां च जीवादीनां भावानां मोक्षान्तानां तत्त्वाधिगमार्थ न्यासः कार्य इति ॥ - (यशो टीका) एभिरित्यादि । एभिः सूत्रोक्तः,नामादिभिरित्यादिशब्देनेयत्तानवधारणादाह-चतुर्भिः। उपलक्षणमेतत् सन्मवतामन्येषाम् , अनुयोग सकलगणिपिटकार्थः, तस्य द्वाराण्यधिगमोपायाः, तत्वं च जनकशक्तिमहावशेष्यत्वेन, तैरिति, धान्येन धनमितिवदभेदे तृतीया । तदभिन्नानां तेषां जीवादीनां તયાનાં ન્યાસ નીવાદ્વિપદ્ધશક્તિ હો ભવતિ | નાનાવિધારશાત્વોષાર્થમયમુપાય, તવાદ-વरणेत्यादि । नामादिचतुभ्यं लक्ष्येऽवतारयन्नाह-तद्यथा, नामजीव इत्यादि । नाम संज्ञा कर्मत्यनर्थाતનિતિ, નામ સંજ્ઞા વર્ગ ચેતત્વ પર્યાયત્યા તનાવતોડ્યેતનાવતો વ ચત્ વીવ તિ नाम क्रियते स नामेव जीयो नामजीव, चेतनापति तत् स्ववाच्यार्थयुक्तम् , अन्यत्र तु तदयुक्तमित्यर्थः । द्रव्यस्येति गुणक्रिययोरप्युपलक्षणम् । तयोरपि नामादिचतुष्टयप्रवृत्तः । द्रव्यमेव गुणक्रियाकारण परिणमते, न. नानावे ततोऽन्य ते स्त इत्यभिप्रायेण वा द्र०यस्येत्यवधार्योक्तम् यत्र जीवपदाजीवनामप्रकारेणैव शा०दबोधः, तत्र तदुपाधिकैव शक्तिस्तादृशसकेताभिव्यया स्वीकतव्या नामजीवत्वेन
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy