SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ वरदराजविरचितम् । ज्ञानं बन्धः ॥२॥ अज्ञानमिति तत्राद्यं चैतन्यस्फाररूपिणि । मात्मन्यनात्मताज्ञानं ज्ञानं पुनरनात्मनि ॥ १५ ॥ देहादावात्ममानिलं द्वयमप्येतदाणवम् । मलं खकल्पितं खस्मिन्बंधः स्वेच्छाविभावितः॥ १६॥२॥ किमाणवमलात्मैव बन्धोऽयं, नेत्युदीर्यते । योनिवर्गः कलाशरीरम् ॥३॥ योनिदप्रथाहेतुर्माया वर्गस्तदुत्थितः ॥ १७ ।। कलादिदितिपर्यन्ततत्त्वराशिस्तदात्मकः । मायीयाख्यं मलं तत्तद्भिन्नवेद्यप्रथामयम् ॥ १८ ॥ कलेति कायमाविश्य परिच्छेदकरी नृणाम् । व्यापृतिः पुण्यपापात्मा शरीरं यस्य तत्पुनः ।। १६ ॥ कार्म च मलमेतमिन्द्वये बन्धोऽनुवर्तते । ईश्वरप्रत्यभिज्ञायामुक्तमेतन्मलत्रयम् ॥ २० ॥ 'स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता । द्विधाणवं मलमिदं स्वस्वरूपापहारतः ॥ २१ ॥ भिन्नवेद्यप्रथात्रैव मायीयं, जन्मभोगदम् । कर्तर्यबोधे काम तु, मायाशक्त्यैव तत्त्रयम् ।।' २२ ।। इत्यथैषां मलानां तु बन्धकलं निरूप्यते ।
SR No.010489
Book TitleShivsutra Varttikam
Original Sutra AuthorN/A
AuthorVaradraja, Madhusudan Kaul
PublisherResearch Department Jammu & Kashmir Srinagar
Publication Year1925
Total Pages63
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy