SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ७२ षड्दर्शनसमुच्चयः । प्रसिद्धवस्तुसाधर्म्यादप्रसिद्धस्य साधनम् । उपमानं समाख्यातं यथा गौर्गवयस्तथा ॥ २३ ॥ शाब्दम । तोपदेशस्तु मानमेवं चतुर्विधम् । प्रमेयं चात्मदेहार्थबुद्धीन्द्रियसुखादि च ॥ २४ ॥ किमेतदिति सन्दिग्धः प्रत्ययः संशयो मतः । प्रवर्तते यदर्थित्वात्तत्तु साध्यं प्रयोजनम् ॥ २५ ॥ दृष्टान्तस्तु भवेदेव विवादविषयो न यः । सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ॥ २६ ॥ प्रतिज्ञाहेतुदृष्टान्तोपनया निगमस्तथा । अवयवाः पञ्च तर्कः संशयो परमो भवेत् ॥ २७ ॥ यथा काकादिसंपातात् स्थाणुना भाव्यमत्र हि । ऊर्ध्वं संदेहतर्काभ्यां प्रत्ययो निर्णयो मतः ॥ २८ ॥ आचार्य शिष्ययोः पक्षप्रतिपक्षपरिग्रहात् । यः कथाऽभ्यासहेतुः स्यादसौ वाद उदाहृतः ॥ २९ ॥ विजिगीषु कथा या तु च्छलजात्यादिदूषणम् । स जल्पः, सा वितण्डा तु या प्रतिपक्षवर्जिता ॥ ३० ॥ हेत्वाभासा असिद्धाया, श्छलं कूपो नवोदकः । जातयो दूषणाभासाः पक्षादिष्यते न यैः ॥ ३१ ॥ निग्रहस्थानमाख्यातं परो येन निगृह्यते । प्रतिज्ञाहानिसंन्यासविरोधादिविभेदवत् नैयायिक मतस्यैवं समासः कथितोऽधुना । ॥ ३२ ॥ सांख्यमतम् - सांख्याभिमतभावानामिदानीमयमुच्यते ॥ ३३ ॥ एतेषां या समावस्था सा प्रकृतिः किलोच्यते । प्रधानाव्यक्तशब्दाभ्यां वाच्या नित्यस्वरूपिका ॥ ३४ ॥ सांख्या निरीश्वराः केचित्केचिदीश्वरदेवताः । सर्वेषामपि तेषां स्यात्तत्त्वानां पञ्चविंशतिः ॥ ३५ ॥
SR No.010485
Book TitleShaddarshan Samucchaya
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages85
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy