________________
सटीके षड्दर्शनसमुच्चये इति स्थिते तदुपदेशपूर्वकमुपसंहारमाह
तस्माद् दृष्टपरित्यागाददृष्टे च प्रवर्तनम् ।
लोकस्य तद्विमूढत्वं चार्वाकाः प्रतिपेदिरे ॥ ८ ॥ __ तस्मादिति पूर्वोक्तानुस्मारणे, पूर्व तस्मातत्तः कारणाद् दृष्टपरित्यागाद् दृष्टं पेयापेयखाद्याखाधगम्यागम्यानुरूपं प्रत्यक्षानुभाव्यं यत्सुखं तस्य परित्यागाददृष्टे तपश्चरणादिकष्टक्रियासाध्यपरलोकसुखादौ प्रवर्तनं प्रवृत्तिः, चः साच्चये, यत्तदोनॆयत्याद॰ यत्सम्बन्धो ज्ञेयः, तल्लोकस्य विमूढत्वमज्ञानत्वं चार्वाकाः लौकायतिकाः प्रतिपेदिरे प्रतिपनाः, मूढलोका हि विप्रतारकवचनोपन्यासभासितज्ञानाः सांसारिक सुखं परित्यज्य व्यर्थ स्वर्ग मोक्षपिपासया तपोजपथ्यानहोमादिभिरिहत्यं सुखं हस्तगतापेक्षन्त इति ॥ ८५ ॥
साध्यावृत्तिनिवृत्तिभ्यां या प्रीतिर्जायते जने । निरर्था सा मता तेषां सा चाकाशात् परा न हि॥८६॥
साध्यस्य मनीषितस्य कस्यचिद्वस्तुन आवृत्तिः प्राप्तिः, कस्यचिद्वस्तुनोऽनभीष्टस्य निवृत्तिरभावः, ताभ्यां जने लोके या प्रीतिर्जायत उत्पद्यते सा तेषां चार्वाकाणां निरर्थिका निरभिप्राया शून्या मताऽभीष्टा भवार्जितपुण्यपापसाध्यं सुखदुःखादिकं सर्वथा न विद्यत इत्यर्थः, सा च प्रीतिराकाशाद् गगनात् परा न हि यथाऽऽकाशं शून्यं तथैषाऽपि प्रीतिरभावरूपैवेत्यर्थः ॥ ८६ ॥ उपसंहारमाह
लोकायतमतेऽप्येवं संक्षेपाऽयं निवेदितः । • अभिधेयतात्पर्यार्थः पर्यालोच्या सुबुद्धिभिः॥ ८७ ।। इति हरिभद्रसूरिकृतः षड्दर्शनसमुच्चयः समाप्तः ।