SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ४२ तथा सटीके षड्दर्शनसमुच्चये निर्विशेषं हि सामान्यं भवेत्खरविषाणवत् । सामान्यरहितत्वेन विशेपास्तद्वदेव हि ॥ तथैकान्तसत्त्वमेकान्तासत्त्वं च वार्त्तमेव, तथा हि- सर्वभावानां हि सदसदात्मकत्वमेव स्वरूपम्, एकान्तसत्वे वस्तुनो वैस्वरूप्यं स्याद एकान्तासचे च निःस्वभावता भावानां स्यात् तस्मात्स्वरूपेण सच्चात् पररूमेण चासच्चात् सदसदात्मकं वस्तु सिद्धम् । यदाहु:-- 'सर्वमस्ति स्वरूपेण पररूपेण नास्ति च । अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याप्यसम्भवः' ॥ इति । ततचैकस्मिन् घटे सर्वेषां घटव्यतिरिक्तपदार्थानामभावरूपेण वृत्तेरनेकान्तात्मकत्वं घटस्य सूपपादम् एवं चैकस्मिन्नर्थे ज्ञाते सर्वे - षामर्थानां ज्ञानं सर्वपदार्थपरिच्छेदमन्तरेण तन्निषेधात्मन एकस्य वस्तुनो विविक्ततया परिच्छेदासम्भवाद् । आगमोऽप्येवमेव व्यवस्थितः - 'जे' एगं जाणइ सो सव्वं जाणइ । जो सव्वं जाणइ सो एगं जाणई' || तथा एको भावः सर्वथा येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः । सर्वे भवाः सर्वथा येन दृष्टा एको भावः सर्वथा तेन दृष्टः ॥ इति सुघटं सदसदने कान्तात्मकं वस्तु, अनयैव भङ्गया स्यादस्तिस्यान्नास्तिस्यादवक्तव्यादिसप्तभङ्गी विस्तरस्य जगत्पदार्थसार्थव्यापकत्वाद् अभिलाप्यानभिलाप्यात्मकमप्यूह्यमिति । सद्भूतार्थोपदेशकः कृत्स्नकर्मक्षयं कृत्वेति । कृत्स्नानि सर्वाणि घात्यघातीनि यानि कर्माणि जीवभोग्यवेद्यपुद्गलास्तेषां क्षयं निर्जरणं विधाय परमं पदं सम्प्राप्तः । १. य एकं जानाति स सर्व जानाति । यः सर्वं जानाति स एकं जानाति ॥
SR No.010485
Book TitleShaddarshan Samucchaya
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages85
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy